Naitik Shiksha essay in sanskrit नैतिक शिक्षा पर संस्कृत में निबंध

sanskrit essay

Naitik Shiksha essay in sanskrit नैतिक शिक्षा पर संस्कृत में निबंध

नैतिकशिक्षाया: महत्त्वम्

”शिक्ष” ‘विद्योपादाने’ इति व्युत्पत्त्या शिक्षाशब्दस्य अर्थः विद्यार्जनम् एव किन्तु केवलानि पुस्तकानि कण्ठस्थीकृत्य उपाधिं प्राप्य जीविकोपार्जनम् एव शिक्षा नास्ति जीवने सत्यम्, अहिंसा, विनम्रतानियमसाहसप्रभृतीनाम् उच्चादर्शाणाम् सम्यक् समावेशनम् एव शिक्षाया: उद्देश्यं भवति । यया शिक्षया एतादृशाणां सद्गुणानां विकास: भवति सा नैतिक शिक्षेति उच्यते । नैतिक शिक्षामाध्यमेन मानवानां मूलप्रवृत्तय: संशोध्यन्ते । नैतिकशिक्षया सङ्कीर्णानां विचाराणाम् अपनयनं भवति उचितानुचितनिर्णयक्षमताया: विकासोऽपि भवति । सम्प्रति लोके चौर्यहिंसाबलात्कार घृणाद्वेषादिघृणितप्रवृत्तय: अनियंत्रणीया: सञ्जाताः। अत: अस्माभिः मूलप्रवृत्तीनां संयमनम् अवश्यं कर्त्तव्यम्। नैतिक शिक्षाबलेन एव वयं गतगौरवं पुनः प्राप्तुं शक्नुमः |

Leave a Comment