Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध

sanskrit essay

Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध

भारतीया संस्कृति:

संस्कृति: नाम संस्कारेण संस्करणं परिष्करणम् इति । यया संस्कृत्या सभ्यतया च भारतीया: जना: संस्कार परिष्कारं च लभन्ते सा एव भारतीया संस्कृतिः। इयम् ‘आर्यसंस्कृति:’ अपि उच्यते । एषा संस्कृतिः जनानां हृदयेभ्य: दुर्गुणान्, दुर्व्यसनानि, पापानि च निस्सार्य दूरीकरोति । सदाचार – शिक्षणेन च सा मानवमनांसि निर्मलानि सात्त्विकानि च करोति ‘समन्वय भावना’ अस्माकं भारतीयानां संस्कृते: प्रमुखा विशेषता अस्ति । संस्कृतिरियं विश्वस्य सर्वेभ्य: मानवेभ्य: सौख्यम् उपदिशति ।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥

अस्माकं भारते पूर्वम् आर्यजना: पापेभ्यः बिभ्यति स्म, सत्यं वदन्ति स्म, अहिंसाम् आचरन्ति स्म। ते दया- परोपकार- धैर्य-त्योगशीलता – सहानुभूत्यादि नियमान् पालयन्ति स्म अत एव ते विश्ववन्द्या: आसन् । भारतीया: जना: शास्त्रोक्तानां धर्मनियमानां पालने मनसा वाचा कर्मणा संनद्धाः भवन्ति स्म । सत्यमिदं यत् संसारे य: कोऽपि स्वसंस्कृतिं त्यजति स कदापि सुखी समृद्धश्च न भवति। अत: यदि वयं सुखं सम्मानं, समृद्धिं च इच्छामः तर्हि स्वभारतीयसंस्कृते: सद्गुणा: अस्माभिः ग्रहणीया: पालनीया: एव ।

Leave a Comment