LETTER TO FATHER IN SANSKRIT पितरौ प्रति परीक्षाया: परिणामसूचकं पत्रम्

LETTER TO FATHER IN SANSKRIT

LETTER TO FATHER IN SANSKRIT पितरौ प्रति परीक्षाया: परिणामसूचकं पत्रम्

पितरौ प्रति परीक्षाया: परिणामसूचकं पत्रम्


छात्रावास:
केन्द्रीय विद्यालय: देहलीछावनीत: नव दिल्ली


वन्दनीया: पितृचरणा:

सादरं प्रणम्यते यदहम् अत्र सम्यक् निवसामि । मम परीक्षाफलम् अधुना प्रकाशितम्। नवमकक्षायाम् अहम् प्रथमश्रेण्याम् उत्तीर्णः । सर्वेषु छात्रेषु मम प्रथमं स्थानमस्ति। अधुना कानिचित् पुस्तकानि क्रेतव्यानि सन्ति । विद्यालयस्य शुल्कमपि देयमस्ति। अत: पञ्चसहस्रं रूप्यकाणि शीघ्रतया प्रेषयन्तु भवन्त:। अहं प्रत्यहं मातुः स्मरणं करोमि। अनुज: रमेशः कथम् अस्ति । भगिनी श्वेता प्रत्यहं पठनाय विद्यालयं गच्छति न वा। अहम् अवकाशे गृहम् आगमिष्यामि। भवदाशीर्वचसां प्रतीक्षायाम्

भवत्पुत्र:
भवभूतिः
कक्षा 10
वर्ग: ‘ब’
केन्द्रीय विद्यालय:, दिल्ली


दिनाङ्क: – १२/१२/२०२२

Leave a Comment