Kalidas Essay In Sanskrit संस्कृत में कालिदास का निबंध:

sanskrit essay

Kalidas Essay In Sanskrit संस्कृत में कालिदास का निबंध:

संस्कृतसाहित्यम् अतिविस्तृतं वर्तते । अत्र नैके कवय: अनेकान् ग्रन्थान् विरचितवन्तः परं न हि तैर्लिखितं सर्वं साहित्यम् इदानीं प्राप्यते । केवलं अङ्गुलिगण्या एव कवयः एतादृशाः सन्ति येषां नाम अद्यापि आदरपूर्वक गृह्यते, मुहुर्मुहुश्च तेषां साहित्यं पठ्यते एतादृश एव कविः कालिदासोऽस्ति, यो हि आलोचकैः कविकुलगुरुः इत्युपाधिना समलङ्क्रियते।

कालिदास : भारतवर्षस्य कस्मिन् प्रदेशे कस्मिंश्च काले जन्म लेभे इत्यादिप्रश्ना: अद्यावधि: असमाहिताः एव विद्वांसः खैस्तीयप्रथमशताब्दीत: आरभ्य षष्ठशतकं यावत् कुत्रापि कालिदासस्य स्थितिं स्थापयन्ति। तस्य जन्मस्थान विषयेऽपि विवदन्ते कालिदासस्य लोकप्रियतां वीक्ष्य कश्मीरवासिनस्तं कश्मीरप्रदेशे समुत्पन्नम्, बंगालवासिनश्च तं बंगप्रान्ते समुद्भूतम्, उज्जयिनीवासिनश्च कालिदासम् उज्जयिन लब्धजन्मानं कथयन्ति।

महाकविना कालिदासेन सप्तग्रन्थाः विरचिताः एतेषु रघुवंश कुमारसम्भव-नामके द्वे महाकाव्ये, ऋतुसंहार मेघदूतनामके द्वे खण्डकाव्ये, अभिज्ञान शाकुन्तलम्, विक्रमोर्वशीयम मालविकाग्निमित्रञ्चेति त्रीणि नाटकानि सन्ति

एतेषु सर्वेषु अभिज्ञानशाकुन्तलं नाम नाटकं तस्य सर्वस्वम् अभिधीयते। एतन्नाटकम् अधीत्यैव पाश्चात्त्या: संस्कृताध्ययनं प्रति समुत्सुका अभूवन् । कालिदासस्य साहित्ये सर्वत्र प्रकृतेश्चित्रणं वर्तते । मानवः यदा यदा स्वकर्तव्यस्य अवहेलनां विदधाति तदा स शापं दण्डं च प्राप्नोति । प्रकृतिशरणं गत्वैव तस्य निष्कृतिर्भवति शाकुन्तले दुर्वाससः शापमाध्यमेन, मेघदूते च यक्षकथामाध्यमेन कविरिदमेव मुहुर्मुहुरुपदिशति कालिदासस्य रस- भावसमन्विता वाणी कस्य मनो न हरति ? कालिदासस्य अद्वितीयत्वमेव केनापि कविनोक्तम्

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः।
अद्यापि तत्तुल्यकवेरभवाद् अनामिका सार्थवती बभूव ।।

Leave a Comment