Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

UP Board Results 2022 Updates 1
Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

सज्जनानां संगतिः सत्सङ्गतिः कथ्यते । मानवः एकः सामाजिक प्राणी अस्ति, अनेनैव सः एकलः स्थातुं न शक्यते । सत्यं तु एतत् संसारे नैव कोऽपि प्राणी संसर्गेण विना भवितुं स्थातुं वा न शक्यते । न केवलं एतावत् वनस्पतयोऽपि संसर्गेण एव सुखिनः भवन्ति । एका लता वृक्षेण विना स्व जीवनं सम्यक् रूपेण जीवितुं न शक्यते, सा वृक्षस्य अवलम्बं गृह्णाति एव

पशुपक्षिणश्च स्व मित्रैः सह उषित्वा एव प्रसन्नाः भवन्ति । वनवासी मृगः मृगीं विना व्याकुलो भवति । एवमेव चक्रवाकोऽपि चक्रवाकीं विना स्थातुं न शक्नोति ।

कथनस्य तात्पर्यमिदं यत् संसारेऽस्मिन् नैव कोऽपि जीवः एकलः स्व जीवनं धारयितुं शक्यते । सः यत्र कुत्रापि तिष्ठति, उत्तिष्ठति, खादति, पिबति, स्वपिति आनन्दञ्च अनुभवति तस्य वातावरणस्य प्रभावः तस्योपरि भवति एव, नैव अत्र काऽपि विप्रतिपत्तिः दृश्यते ।

जनः यादृश्यां संगतौ वसति तादृश एव प्रभावः तस्मिन् दरीदृश्यते । यदि सः दुष्टैः जनैः सह वसति, तर्हि दुष्टो भवति, यदि वा सज्जनानां सङ्गतौ वसति, तर्हि सज्जनो भवति । अनेनैव कथ्यते –

“संसर्गजाः दोषगुणाः भवन्ति”

प्राचीनकाले वाल्मीकिः नाम ऋषिः स्वस्थ जीवनस्य प्रारम्भिके काले दस्युः आसीत्, सत्सङ्गत्या एव मुनिः सञ्जतः तदनन्तरञ्च महाकविः रामायणं नाम महाकाव्यं विरचितं तेन । vidhya Essay In Sanskrit विद्या महत्‍वम् निबंध

सत्सङ्गत्या एव ‘कबीर’ नामकः जनः निरक्षरोऽपि सन्तसमाजे प्रतिष्ठासम्पन्नः सञ्जतः अनेकशः जनः विद्वान् भवति, किन्तु तस्य कार्यकलापानि दुष्टानि भवन्ति । ईदृशानां जनानां संगतिः कदापि न विधेया । कथितञ्च

-दुर्जनः परिहर्तव्यः विद्ययाऽलंकृतोऽपि सन् ।

मणिना भूषितः सर्पः किमसौ न भयंकरः । ।


संसारेऽस्मिन् यदि जनः सुखी भवितुं वाञ्छति, तर्हि तेन सदैव सज्जनानां सङ्गतिः विधेया । दुष्टेभ्यः सदैव दूरीभूयात् दुष्टानां सङ्गतिः कज्जलवत् भवति, यत्र गमने मलिनता अवश्यमेव भवति एवमेव दुष्टानां संगत्या जनस्य चरित्रमपि मलिनं भवत्येव ।

सुसंस्कारैः जनः विलम्बात् प्रभावितो भवति, दुःसंस्कारैश्च सः शीघ्रमेव प्रभवति । अतः अस्माभिः सदैव सत्सङ्गतिः विधेया स्व मित्राणि पारिवारिकान् सदस्यान् च सदैव दुष्टसंगात् अवरोद्धव्यम् ।

सत्सङ्गतिस्तु वस्तुतः गुणनिधाना वर्तते । यदि जनः श्रेष्ठजनसंसर्गे वसति नैव तं जनं कस्यापि शिक्षकस्य कदापि आवश्यकता भवति । कुत्रापि च विद्याध्ययनस्य अनिवार्यता न कुतः तस्मिन् स्वयमेव ते सर्वे गुणाः प्रविशन्ति येन सह सः वसति । अतएव केनापि कविना कथितम्

जाड्यं धियो हरति, सिञ्चति वाचि सत्यं, मानोन्नतिं दिशति, पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्सङ्गतिः कथय किं न करोति पुंसाम्॥ अपि च-

सद्भिरेव सहासीत्, सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवाद मैत्रींच, नासद्भिः किञ्चिदाचरेत् ॥

अतः अस्माभिः सदैव सत्सङ्गतिः विधेया |

2 thoughts on “Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में”

Leave a Comment