Paropkar Essay In Sanskrit परोपकार निबंध संस्कृत में

UP Board Results 2022 Updates 1
Paropkar Essay In Sanskrit परोपकार का निबंध संस्कृत में

Paropkar Essay In Sanskrit परोपकार का निबंध संस्कृत में

परेषा उपकारः परोपकारः इति कथ्यते । संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां प्राणीनां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यते । एतादृशाः च जनाः परोपकारिणः भवन्ति ।

संसारेऽस्मिन् द्विधा जनाः भवन्ति केचित् स्वार्थाय जीवन्ति केचिच्च परार्थाय । स्वार्थिनः यत् अपि कुर्वन्ति तत्र तेषां कोऽपि स्वार्थो भवत्येव । स्वार्थाभावे तेषां एकापि क्रिया न भवति । किन्तु ये जनाः परोपकारिणः भवन्ति तेषां सर्वे क्रियाकलापाः अन्येभ्यः प्राणिभ्यः एव भवन्ति । ते लेशमात्रमपि स्वार्थवशात् न चिन्तयन्ति, न किमपि कुर्वन्ति । न केवलं एतत् ते तु स्व प्राणान् अपि अन्येभ्यः जीवेभ्यः ददति । एतादृशाः जनाः वस्तुतः मानवतायाः आभूषणं भवन्ति ।

विषयेऽस्मिन् महाराज्ञः शिवेः नाम को न जानाति येन मात्र कपोतस्य जीवनार्थं स्व शरीरस्य मांसमपि विच्छिद्य तूलिकायां न्यक्षिपत् अन्ते च स्वमेव तस्यां तूलिकायां आरोहत्

एवमेव महर्षि दधिचिः मानवतायाः उपकारार्थ देवैः प्रार्थना कृते स्व अस्थिनि अपि अददात् । वस्तुतः तेषां जीवनं धन्यं ये अन्येभ्यः जनेभ्यः जीवन्ति । स्वार्थमयी वृत्तिस्तु पशूनाम् भवति । कथितञ्च

पशवो हि जीवन्ति केवलं स्वोदरम्भराः ।
तस्यैव जीवितं श्लाघ्यं यः परार्थ हि जीवति ॥

Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

परोपकारिणां आभूषणं परोपकारः एव भवति । ये जनाः परोपकारं कुर्वन्ति तेषां समाजे सम्मानं भवति, ते प्रतिष्ठां प्राप्नुवन्ति । महाकवि-भर्तृहरिणा अपि कथितम्

श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु करणेन ‘तु’
विभाति कायः करुणापराणां, परोपकारै नं तु चन्दनेन ||

तु वस्तुतः मनुष्यस्य शोभा परोपकारेण भवति न तु अलङ्कारैः प्रकृतेः प्रत्युपादानं

तत् वृक्षः स्यात् नदी वा भवतु, अम्बोदः भवेत् सूर्यः वा अस्तु, चन्द्रमाः अपि वा स्यात् । सर्वेषां जीवन परोपकाराय एव । कथ्यते अनेनैव

स्वयं न खादन्ति फलानि वृक्षाः पिबन्ति नाम्भः स्वयेव नद्यः ।
धाराधरो वर्षति नात्महेतोः, परोपकाराय सतां विभूतयः॥

शास्त्रेषु अपि परोपकारस्य अतीव प्रशंसा कृता वर्तते । अष्टादश पुराणानां रचयिता महर्षि वेदव्यासः कथयति

अष्टादश पुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् । ।

ये जनाः परोपकारं कुर्वन्ति, ईश्वरोऽपि तेषां सहाय्यं करोति । परोपकारः • वस्तुतः सर्वेषां धर्माणां तत्त्वमेव अस्ति । ये जनाः परोपकारिणः भवन्ति ते यदि पूजामपि न कुर्युः नैव कापि हानिः कुतः भगवान् अपि परोपकारिणं प्रति उदारो भवति । परोपकारी परोपकारं कृत्वा असीमशान्तिं अनुभवति ।

सज्जनास्तु परोपकारं स्व कर्तव्यं मन्यन्ते । ते स्वयं कष्टान् अनुभूय अपि परेषां सेवार्थ उपकारार्थं वा सज्जीभवन्ति । वस्तुतः परोपकारिणां जीवन धन्यं, स्वार्थाय तु सर्वे जीवन्ति, परार्थाय जीवनं वै जीवनं भवति ।

अतः अस्माभिः सदैव अन्येषां उपकारः कर्तव्यः एतदर्थं सज्जीभवितव्यः वा कथितञ्च केनापि कविना

परोपकाराय वहन्ति नद्यः, परोपकाराय फलन्ति वृक्षाः ।
परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् ॥

Leave a Comment