Satyam essay in sanskrit सत्यम् पर निबंध संस्कृत में

Satyam essay in hindi सत्यम् पर निबंध संस्कृत में
Satyam essay in hindi सत्यम् पर निबंध संस्कृत में

Satyam essay in sanskrit सत्यम् पर निबंध संस्कृत में

‘न हि सत्यात् परो धर्मः’ वस्तुतः कथनं एतत् पूर्णतया सत्यं शाश्वतं चास्ति । सर्वेषां धर्माणां सर्वेषु ग्रन्थेषु सत्यस्य सर्वोत्कृष्ट स्थानमस्ति । अनेनैव मनुस्मृतिकारेण धर्मस्य लक्षणं उल्लेखयन् सत्यं अन्यतमं स्वीकृतं वर्तते — ‘

आहुः सत्यं हि परमं धर्म, धर्मविदो जनाः । ।’

मानवैः सदैव सत्यस्य पालनं कर्तव्यम् । सत्यसंभाषणेन जनस्य समाजे सम्मानं प्रतिष्ठा च वर्धेते । तं कीर्ते, सफलतायाः शान्तेः सुखस्य च प्राप्तिर्भवति । सर्वेषु वेदेषु शास्त्रेषु च सत्यस्य महिमा वर्णितः दृश्यते, मानवजीवने यादृशं महत्त्वं सत्यस्य न अन्यस्य कस्यापि वस्तोः तादृशं वर्तते । सत्यवादिनः जनाः सदैव निर्भयाः प्रसन्नवदनाः च भवन्ति ।

ये जनाः सत्यं वदन्ति समाजे ते प्रमाणं भवन्ति । तेषां पूजा भवति ।

विषयेऽस्मिन् सत्यवादी – हरिश्चन्द्रस्य उदाहरणं दरीदृश्यते । तेन सत्यस्य पालनाय अनेकानि कष्टानि अनुभूतानि । अनेनैव तस्य नाम अद्य सम्मानपूर्वक गृह्यते ।

एवमेव महाराजदशरथेन स्वप्राणप्रियः रामः वनं प्रेषितः आसीत् । महाभारतस्य सत्यवादिनं युधिष्ठिरं को न जानाति सत्य बलेनैव तेन विजयश्रीः लब्धा । रामायणे रामोऽपि सत्यमाश्रित्य वै लंकां विजितवान् ।

उपनिषत्सु कथितं दृश्यते “सत्यं वद धर्म चर”, अत्रापि सत्यस्य महत्ता परिलक्ष्यते । सत्यवादी जनः केवलं बिभेति, नैव अन्यस्मात् कस्मादपि जनात् जीवात् वा यो जनः सत्यं वदति तस्य मनसि नैव छलछद्मलोभस्य वा स्थानं लेशमात्रमपि दरीदृश्यते । ईदृशः जनः नैव कदापि अनुचितं आचरति ।

वस्तुतः धर्मस्य मूलमपि सत्यमेव अस्ति । भारतवर्षस्य तु राष्ट्रचिह्न अपि

‘सत्यमेव जयते’ स्वीकृतम् । अतः अस्माकं संविधाननिर्मातृभिः विद्वद्भिः सत्यस्य महत्ता स्वीकृता । अनेनैव शिक्षायाः समाप्त्यनन्तरं आचार्योऽपि शिष्या सत्यसंभाषणस्य उपदेशं ददाति ।

अस्य सम्पूर्णस्य संसारस्य अस्तित्वमपि वस्तुतः केषाञ्चिदेव सत्यवादीजनानाम् सत्याचरणे वर्तते । अन्यथा यदि सर्वे जनाः दुष्टाः असत्यवादिनः च भवेयुः, तर्हि जगत् एतत् नष्टं भवेत् । अतः अस्माभिः सदैव सत्यसम्भाषणं कर्तव्यम् ।

सत्यस्य आचरणेन वै समाजस्य राष्ट्रस्य वा अस्माकं कल्याणं भविष्यति । ‘सर्व सत्ये प्रतिष्ठितम्’ इति कथ्यते शास्त्रविद्भिः जनैः ।

किन्तु विषयेऽस्मिन् एतदपि अवधारणीयम् यत् सत्यं अप्रियं न वक्तव्यम् । अनेन यः शृणोति सः आहतो भवति, क्लेशञ्च प्राप्नोति ।

अतः शास्त्रेषु कथितम्

सत्यं ब्रूयात् प्रियं ब्रूयात् नाब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्म सनातनः । ।

अद्य तु प्रायः दृश्यते यत् बहवः जनाः सत्यभाषणात् विमुखाः सञ्जताः । अधिकसंख्याकानां जनानां प्रवृत्तिः असत्ये प्रतिष्ठिता दरीदृश्यते ? किन्तु नैव एतत् सर्व शुभ वर्तते । यदि वयं स्वराष्ट्रस्य देशस्य समाजस्य स्वस्य वा उन्नतिं कर्तुं वाञ्छामः, तर्हि सदैव सत्यभाषणं कर्तव्यम्, अनेन समाजे एकस्य स्वस्थवातावरणस्य निर्माणं भविष्यति ।

Leave a Comment