UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 10 निम्बतरो साक्ष्यम्

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 10 निम्बतरो साक्ष्यम्

पुरा एकस्मिन् ग्रामे मनोहरः धर्मचन्दश्च द्वे मित्रे प्रतिवसतः । तौ विदेशात्धनं अर्जयित्वा नीतवन्तौ । तौ विचारितवन्तौ यद् गृहे इदं धनं सुरक्षितं न स्यात् । एवं विमृश्य तद् धनम् एकस्य वृक्षस्य मूले गत्रतं विधाय निक्षिप्तवन्तौ । द्वयोर्मध्ये परस्परं मतैक्यम् अभवत् यत् यस्मै आवश्यकता भविष्यति स अपरेण सह आगत्य निष्कास्यति । मनोहरः सरलः सत्यनिष्ठः चासीत् किन्तु धर्मचन्दः अतीव चतुरः छ‌द्मबुद्धिश्च आसीत् ।

धर्मचन्दः अन्येद्युः निभृतं गत्वा सर्वं धनम् आहृतवान् । ततश्च धर्मचन्दः मनोहरम् अवोचत्-” मित्र । चलतु, किञ्चद् धनम् आहर्तव्यम् । ” द्वौ अपि वृक्षस्य अन्तिकम् आगतवन्तौ । तत्र धनं नासीत् । धर्मचन्दः मनोहरम् आक्षिप्तवान् यत्तेन धनम् अपहृतम् इति । ततस्तौ विवदमानौ राजानं प्रति गच्छतः । द्वयोः विवादं श्रुत्वा राजा अब्रवीत्- “भवतु नाम, श्वः निम्बवृक्षस्य साक्ष्यम् अवाप्य एव कश्चित् निर्णयः भविता । “सत्यनिष्ठः मनोहरः विचारितवान् यद् इदमेव समीचीम् । निम्बतरुः असत्यं न वक्ष्यति । धर्मचन्दोऽपि प्रसन्नः आसीत् । अपरेद्युः राजा द्वाभ्यां सह निम्बवृक्षं प्रत्यगच्छत् । तैः सह समुत्सुकानां जनानां सम्मर्दः अपि आसीत् । ते सर्वे सत्यं ज्ञातुं वा छन्ति स्म ।

राजा निम्बवृक्षं पृष्टवान्-“हे निम्बदेव ! कथय, धनं केन अपहृतम् ?””मनोहरेण” -इति निम्बमूलात्स्वरः प्रकटितः । एतत् श्रुत्वा मनोहरः बाष्पकण्ठः रुरोद अब्रवीत् च” महाराज! एष निम्बतरुः असत्यं वक्तुं नार्हति । अत्र काचित् छद्मयोजना वर्तते । अहं सद्य एव प्रमाणितं करोमि । ” मनोहरः शुष्केन्धनं संहृत्य वृक्षमूले निधाय अग्निं प्रज्वालितवान् । तत्कालमेव वृक्षमूलात्- “रक्षतु-रक्षतु” इति स्वरसंयोगः श्रुतः । राजा सैनिकान् आदिष्टवान्- तत्रयोऽपि भवेत् तं बहिः आनयतु । ” सैनिकाः वृक्षकोटरे स्थितं जनं बहिः आनीतवन्तः । तं दृष्टवा सर्वे विस्मृताः आसन् । यतोहि स धर्मचन्दस्य वृद्धः पिता आसीत् । राजा सर्वम् अपि ज्ञातवान् । स पितरं पुत्रञ्च कारागारे निक्षिप्तवान् । अपि च, तत्सर्वम् धनम् सपुरस्कारं मनोहराय समप्य तं सभाजितवान् ।

अभ्यास :-

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

धर्मचन्दश्च निक्षिप्तवन्तौ द्वयोर्मध्ये मतैक्यम् निष्कास्यति सत्यनिष्ठः छद्मबुद्धिश्च आहृतवान् आहर्तव्यम्

2- एकपदेन उत्तरत-

यथा- मनोहरस्य मित्रं कः आसीत ? धर्मचन्दः

(क) तो अर्जितधनं कुत्र निक्षिप्तवन्तौ ?

(ख) मनोरस्य स्वभावः कीदृशः आसीत् ?
(ग) अन्येद्युः सर्वं धनं कः आहृतवान् ?

(घ) वृक्षकोटरे कः आसीत् ?

3- मन्जूषातः क्रियापदानि चित्वा वाक्यानि पूरयत-

(क) तौ विदेशात् धनं नीतवन्तौ ।

(ख) धर्मचन्दः अतीव चतुरः. ..आसीत् ।

(ग) ततस्तौ विवदमानौ प्रति गच्छतः ।

(घ) निम्बतरु.. न वक्ष्यति ।

(ड़) स पितरं पुत्रच करागारे. 1

4- रेखांकित पदेषु कारकस्य नामोल्लेखं कुरुत-

यथा- स ग्रामं गच्छति । (कर्म कारकम्)

(क) तौ विदेशात् धनं अर्जयित्वा नीतवन्तौ

(ख) स अपरेण सह आगत्य निष्कास्यति

(ग) द्वौ अपि वृक्षस्य अन्तिकम् आगत्वन्तौ

(घ) राजा सैनिकान् आदिष्टवान्

(ड़) सैनिकाः वृक्षकोटरे स्थितं जनं आनीतवन्तः

5- सन्धि-विच्छेदं कुरूत-

पदम् सन्धि-विच्छेदः

(क) धर्मचन्दश्च

(ख) द्वयोर्मध्ये

(ग) समुत्सुकानाम्

(घ) शुष्केन्धनम्

अर्जयित्वा, छ‌द्मबुद्धिश्च, राजानं, असत्य, निक्षिप्तवान् ।

6- रेखांकितपदानि अधिकृत्य प्रश्पनिर्माणं कुरुत-
(क) एकस्मिन् ग्रामे द्वे मित्रे प्रतिवसतः ।

(ख) तौ विदेशात् धनं अर्जयित्वा नीतवन्तौ ।

(ग) धर्मचन्दः अतीव चतुरः छ‌द्मबुद्धिश्च आसीत् ।

7-संस्कृतभाषायाम् अनुवादं कुरुत-

(क) एक गाँव में दो मित्र रहते थे ।

(ख) वे दोनों विदेश से धन अर्जित कर ले आये ।

(ग) मनोहर सरल और सत्यनिष्ठ था ।

(घ) सैनिक वृक्ष के कोटर में स्थित व्यक्ति को बाहर ले आये ।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment