Up board solution for class 7 sanskrit chapter 16

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

Up board solution for class 7 sanskrit chapter 16

विश्वस्य सर्वान् जनान् प्रति बन्धुतायाः भावः विश्वबन्धुत्वम् इति कथ्यते । शान्तिमयाय जीवनाय विश्वबन्धुत्वस्य भावना महत्त्वं भजते। सर्वजनहितं सर्वजनसुखं च बन्धुत्वं विना न सम्भवति । विश्वबन्धुत्वम् अधिकृत्य केनापि मनीषिणा निर्दिष्टम्-

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ।।

साम्प्रतम् जगति सर्वत्र कलहस्य अशान्तेः च साम्राज्यं व्याप्तम् अस्त्। ि येन साधनसम्पन्नः अपि मानवः सुखस्य स्थाने दुःखम् एव अनुभवति । यद्यपि ज्ञानबलेन मानवः इदानीं वायुयानेन आकाशे विचरितुं, जलपोतेन सागरान् सन्तर्तु, रेलयानेन विश्वभ्रमणं कर्तुं ग्रहयानेन चन्द्रादिग्रहेषु च गन्तुं समर्थः अस्ति, तथापि परस्परं सम्बन्धानां कटुतया स अशान्तः एव दृश्यते, कष्टं च अनुभवति । अस्य प्रधानं कारणं बन्धुतायाः अभावः एव ।

विगतयोः द्वयोः विश्वयुद्धयोः विनाशलीलां सर्वे जानन्ति एव । इदानीं तृतीयस्य युद्धस्य सम्भावना मानवजातिम् आक्रान्तां करोति, येन विश्वस्य भयंकरो नाशो भवितुं शक्नोति । अतः आवश्यकता अस्ति यत् मानवः मानवं प्रति बन्धुवत् आचरणं कुर्यात्। एकः देशः अन्येन देशेन सह बन्धुतायाः व्यवहारं कुर्यात्। सबलाः देशाः दुर्बलानां देशानाम् उपरि आक्रमणं न कुर्युः । स्वार्थस्य लोलुपतायाः महत्त्वाकाङ्क्षायाः च स्थाने परोपकारस्य, दयायाः, त्यागस्य, परस्परं सहयोगस्य च प्रसारो भवेत् ।

यद्यपि शान्तिस्थापनार्थं संयुक्तराष्ट्रसंघः, निर्गुटान्दोलनम्, अन्यानि संघटनानि च सततं प्रयत्नं कुर्वन्ति, तथापि स्वार्थस्य, अहंकारस्य, शक्तिवर्धनस्य च दूषितेन भावेन भ्रान्ताः केचिद् देशाः संघर्षरताः सन्ति, विरोधः येन अशान्ति वर्धते। अनेन मानवः एव मानवहन्ता सजातः । सर्वत्र प्रेम्णः बन्धुतायाः च अभावो वर्तते, याभ्यां विना शान्तिः जीवने दुर्लभा जाता।

संसारे सर्वेषु मानवेषु समानं रक्तं प्रवहति, सर्वेषां च नियन्तैकः एव अस्ति। एतत्सर्वं जानन्तः अपि जनाः स्वार्थपरायणतया परस्परं कलहं कुर्वन्ति । अस्य मूलं कारणं विश्वबन्धुतायाः अभाव एव अस्ति। अत एव सर्वेषु विश्वबन्धुत्वस्य भावना नितान्तम् अपेक्षिता वर्तते । विश्वबन्धुत्वे इयमेव भावना सन्निहिता विद्यते-

“सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्।।”

शब्दार्थः

नितराम् = पूरी तरह से। अपरिहार्या अनिवार्य । सम्भवति सम्भव हो सकता है। मनीषिणा = विद्वानों से। परो वेति (परः वा इति) अथवा दूसरे का है ऐसा मानना। लघुचेतसाम् = छोटे हृदय वालों का। आक्रान्ताम् = भयभीत । नियन्तैकः = (नियन्ता+एकः) नियन्ता एक है। साम्प्रतम् = इस समय । सन्तर्तुम् = पार करने के लिए। भ्रान्ताः = भटके हुए। हन्ता = मारने वाला। सञ्जातः = हो गया। निरामयाः = रोगरहित । भद्राणि = कल्याण। प्रेम्णः = प्रेम का। नितान्तम् अतिशय, अत्यधिक ।

अभ्यासः

1-एकपदेन उत्तरत

(क) वसुधैव कुटुम्बकम् केषां मते भवति ?

(ख) मानवः मानवं प्रति कीदृशम् आचरणं कुर्यात् ?

(ग) एकः देशः अन्येन देशेन सह कीदृशं व्यवहारं कुर्यात् ?

(घ) सर्वेषु मानवेषु समानं किं प्रवहति ?

(ङ) जनाः परस्परं कलहं किमर्थं कुर्वन्ति ?

2- पूर्णवाक्येन उत्तरत –

    (क) बन्धुत्वं विना किं न सम्भवति ?

    (ख) संयुक्तराष्ट्रः कीदृशं प्रयत्नं करोति ?

    (ग) कीदृशी भावना नितान्तम् अपेक्षिता वर्तते ?

    (घ) सर्वेषां नियन्ता कः ?

    3-. विभक्तिं वचनं च लिखत –

    पदम् विभक्तिः वचनम्

    कलहस्य………..

    अखिलान् ………..

    जनान्…………..

    रेलयानेन…………

    4- सन्धि-विच्छेदं कुरुत-

    पदम् सन्धि-विच्छेदः

    केनापि………

    तदैव…….

    वेति………

    वसुधैव………

    समस्यैका……….

    5 . मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत –

    (क) ज्ञानबलेन मानवाः इदानीं वायुयानेन ……….. विचरितुं समर्थाः ।

    (ख) विगतयोः द्वयोः ………………… विनाशलीलां सर्वे जानन्ति एव ।

    (ग) उदारचरितानां तु……………… कुटुम्बकम् ।

    (घ) अशान्तस्य च कदापि सुखं न……………. ।

    6- संस्कृतभाषायाम् अनुवादं कुरुत-

    (क) एक देश दूसरे देश के साथ बन्धुता का व्यवहार करें।

    (ख) विश्वबन्धुत्व ही सुख का एकमात्र कारण है।

    (ग) सभी मनुष्यों का हृदय विशाल हो।

    (घ) सभी मनुष्य सुखी रहें।

    (ङ) उदार चरित्र वालों के लिए पृथ्वी ही परिवार है।

    7- निम्नलिखितशब्दानां लघुवाक्येषु प्रयोगं कुरुत-

    यथा- मानवः – मानवः दुःखम् एव अनुभवति ।

    संसारे-

    HOME PAGE

    How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

    संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

    Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

    Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

    MP LOGO

    Leave a Comment