Up board hindi class 10 full solution chapter varanasi वाराणसीः प्रश्न उत्तर
प्रश्न 1 – वाराणसी नगरी कुत्र स्थिता अस्ति ?
उत्तर
वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति ।
प्रश्न 2 – वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणस्ययाः प्रशंसन्ति।
उत्तर
वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणस्याः प्रशंसन्ति।
प्रश्न 3 – वैदेशिकाः किमर्थम् वाराणसीम् आगच्छन्ति ?
उत्तर
वैदेशिका: संस्कृतस्य अध्ययनाय वाराणसीम् आगच्छन्ति ।
प्रश्न 4 – वाराणस्यां कति विश्वविद्यालयाः सन्ति ?
वाराणस्यां कति विश्वविद्यालयाः सन्ति ?
उत्तर
वाराणस्यां हिन्दू विश्वविद्यालयः, संस्कृत विश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति।
प्रश्न 5 – वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति?
वाराणसी नगरी कस्य केन्द्रस्थली अस्ति ?
वाराणसी कस्य केन्द्रस्थलम् अस्ति ?
वाराणसी नगरी केषां संगमस्थली अस्ति?
उत्तर:-
वाराणसी भारतीयसंस्कृते: संस्कृतभाषायाश्च केन्द्रम् अस्ति।
प्रश्न 6 – कः मुगलयुवराजः वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत् ?
उत्तर
मुगलयुवराज: दाराशिकोह: वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।
प्रश्न 7 – दाराशिकोहः कुत्र गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत् ?
उत्तर
दाराशिकोह: वाराणस्यां गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत्।
प्रश्न 8 – दाराशिकोहः कस्यां भाषायाम् उपनिषदाम् अनुवादम् अकारयत् ?
उत्तर
दाराशिकोह: पारसीभाषायाम् उपनिषदाम् अनुवादम् अकारयत्।।
प्रश्न 9 – वाराणसी नगरी केषां सङ्गमस्थली अस्ति?
का नगरी विविधधर्माणां सङ्गमस्थली अस्ति ?
वाराणसी कस्य सङ्गमस्थली अस्ति ?
उत्तर
वाराणसी नगरी विविधधर्माणां सङ्गमस्थली अस्ति।
प्रश्न 10 – वाराणसी किमर्थं प्रसिद्धा ?
वाराणसी कथं प्रसिद्धा अस्ति ?
उत्तर
वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च कृते प्रसिद्धा अस्ति ।
प्रश्न 10 – वाराणसी किमर्थं प्रसिद्धा ?
वाराणसी कथं प्रसिद्धा अस्ति ?
उत्तर:-
वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च प्रसिद्धा अस्ति।
प्रश्न 11 – कुत्र मरणं मङ्गलं भवति ?
उत्तर:-
वाराणस्यां (काशी)मरणं मङ्गलं भवति।
प्रश्न 12 – सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते ?
उत्तर:-
सम्पूर्णानन्द संस्कृत विश्वविद्यालयः वाराणस्यां नगर्यां विद्यते।
प्रश्न 13 – दाराशिकोहः किमर्थम् अत्रागतः ?
उत्तर:-
मुगलयुवराजः दाराशिकोहः भारतीय दर्शनशास्त्राणाम् अध्ययनाय अत्र आगच्छत् ।
प्रश्न 14 – दाराशिकोहः वाराणसी आगत्य किमकरोत् ?
उत्तर:-
दाराशिकोह: वाराणसीं आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।
प्रश्न 15
वाराणस्याः कानि वस्तूनि प्रसिद्धाः सन्ति ?
उत्तर:-
वाराणस्याः कौशेयशाटिका: प्रस्तरमूर्तयः च प्रसिद्धाः सन्ति।
प्रश्न 16 – वाराणसी नगरी कस्याः कूले स्थिता ?
उत्तर
वाराणसी नगरी गङ्गायाः कूले स्थिता।
प्रश्न 17 – वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति ?
उत्तर
विविधानां कलानां शिल्पानां च कृते वाराणसी नगरी लोके विश्रुता।
प्रश्न 18 – कस्याः शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति ?
उत्तर
गङ्गायाः घट्टानांं शोभां विलोक्य पर्यटका: बहु प्रशंसन्ति।
प्रश्न 19 – वाराणस्यां गेहे-गेहे किं द्योतते ?
उत्तर
वाराणस्यां गेहे-गेहे विद्यायाः दिव्यं ज्योति: द्योतते
Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में