Mp board class 10 sanskrit solution chapter 2

Mp board class 10 sanskrit solution chapter 2

Mp board class 10 sanskrit solution chapter 2 न्यग्रोधवृक्षः

पाठ का हिंदी अनुवाद संस्कृत सहित


1 . न्यग्रोधवृक्षकस्मिंश्चित् ग्रामे एक: प्राचीन: विशाल: च न्यग्रोधवृक्षः आसीत् । स: पशुपक्षिभ्य: बहुविधेभ्य: जीवजन्तुभ्य: मनुष्येभ्यः अपि नित्यं बहूपकारकः आसीत् । पथिका: तस्य वृक्षस्य छायायां पाथेयं भक्षयित्वा मार्गायासं परिहरन्ति स्म । पशव: छायार्थं वृक्षमिमम् आश्रयन्ति स्म । पक्षिण: तस्य शाखासु नीडानि विरच्य वसन्ति स्म । सर्पाश्च तत्रत्येषु वल्मीकेषु वासं कुर्वन्ति स्म । एवं स वृक्षः सर्वप्रिय: सर्वहितकारी सर्वापेक्षित: च आसीत् ।

अनुवाद-


2. तस्य न्यग्रोधवृक्षस्य शाखायाम् एकः काकः बहुकालात् वसन्नासीत्। कस्मिंश्चित् दिने स वायस: किमपि स्मरन् इतस्तत: दृष्ट्वा एवम् उच्चैः अरटत् “हे बन्धवः! श्रूयन्तां मे वचः । अहम् अस्मिन् वृक्षे चिरात् वसामि । अतः अस्योपरि ममैव अधिकारः वर्तते । अयं मदीय: वृक्षः इति । काकस्य ध्वनि: क्रमेण अन्तरिक्षम् अस्पृशत् ।

अनुवाद-


3. काकस्य रटनं श्रुत्वा वृक्षस्य समीपे चरन्त: वृक्षाग्रे डयमाना: वृक्षस्य कोटरेषु निवसन्त: च सर्वे प्राणिन: पशव: पक्षिण: सर्पाश्च समायाताः। तेषां मध्ये प्रथमं सर्पः फटाटोपं कुर्वन् न्यगदत् “पितृपितामहानां कालादपि अहम् अत्रैव निवसामि अतोऽयं वृक्ष: मदीय एव” इति । तत: शाखात: शाखान्तरं चंक्रम्य एक: कीट: प्रत्यवदत् “मदीयैः अर्भकैः सार्द्धम् अहं बहुवर्षेभ्य: अत्रैव उषितवानस्मि । अतोऽयं वृक्षः ममैव” इति ।

Mp board class 10 sanskrit solution chapter 2

अनुवाद-


4. अनन्तरं शुक: “अस्य वृक्षस्य फलानि खादन् जन्मत: अहमत्रैव वर्ते । नाहमिमं द्रुमं परित्यक्तुमिच्छामि । मदीय एवायं न्यग्रोधवृक्षः” इति उच्चैः अभणत् । ततश्च तत्रत्या: अपरिमिता: कृमय: कीटाश्च “अयं तरु: अस्मदीय एव” इत्युक्त्वा वृक्षस्योपरि स्वं-स्वम् अधिकारं घोषयन् विचित्रतरं कोलाहलम् अकुर्वन् ।

अनुवाद-


5. अत्रान्तरे कश्चित् अजापुत्रः तत्रागतः । सोऽपि तस्य तरो: पत्राणि खादन् नन्दति स्म । तं दृष्ट्वा सर्वे प्राणिन: न्यायनिर्णय कर्तुं तं प्रार्थयन्त । सर्वेषां वचनानि श्रुत्वा स अज: अवदत् – “अस्तु मया समेषां समस्या समाकर्णिता । इदानीं मम वचनानि यूयं शृणुत । काश्चन शाखा: काकेभ्यः, शाखान्तराणि च कृमिकीटेभ्यः, मूलं सर्वेभ्य: अनेन प्रकारेण सर्वेभ्योऽपि वृक्षं विभज्य दापयिष्यामि । अस्मिन्नेव ग्रामे कश्चित् वृक्षच्छेदक: मे मित्रमस्ति । तम् आह्वयामि इमं वृक्षं खण्डश: कर्तुम्” इति।


6. अजस्य निर्णयः सर्वैः स्वीकृत: अत: सर्वेऽपि वृक्षच्छेदकस्य समीपं गत्वा न्यग्रोधवृक्षं छित्वा तस्य भागानाम् वितरणार्थं प्रार्थयन्त । परं सोऽयं काष्ठच्छेदकः अवदत् “पूर्वम् अहं वृक्षान् छिनद्मि स्म । अधुना तादृशे कुत्सिते कर्मणि न व्यापारयामि। वृक्षाणां छेदनं महत् पापमिति मया अधिगतमस्ति अत: न्यग्रोधवृक्षस्य छेदनम् अहं न करिष्यामि” इति।

अनुवाद-
7. तथापि सर्वे प्राणिन: तं वृक्षं छेत्तुं यदा निर्बन्धम् अकुर्वन् तदा स धीमान् इदमाह – “अस्तु तर्हि प्रथमं मे वचः शृणुत-यूयं सर्वेऽपि अनेन वृक्षण उपकृता: एव । वृक्षस्य उपकारं स्वीकृत्य युष्माभिः कः प्रत्युपकारः कृत: ? युष्माकं मध्ये कः वृक्षस्य जलसेचनम् अकरोत् ? कः तस्य रक्षणं विहितवान् ? न कोऽपि किञ्चिदपि अकरोत् । वरुणदेव: वृष्टिं वर्षति । सूर्यदेव: प्रकाशं प्रयच्छति । भूमाता वृक्षस्य आधारभूता अस्ति। वायु: अनिलं ददाति। ते सर्वे वृक्षं पालयन्ति पोषयन्ति रक्षन्ति च । ते न कदापि “मम अधिकार: वर्तते” इति अवदन् । ते सर्वे परोपकारिणः। परं यूयं सर्वे परापकारिण: वृक्षस्य साहाय्यं स्वीकृत्य तमेव नाशयितुं कृतसङ्कल्पा यूयं स्वाश्रयमेव नाशयथ । अस्मिन् वृक्षे छिन्ने सति यूयं कुत्र गमिष्यथ ?

अनुवाद-


7. सर्वमिदं श्रुत्वा पशुपक्षिण: “आम् । सत्यम् । वयं स्वकर्त्तव्यं विस्मृत्य अधिकारार्थं कोलाहलं कुर्मः। वृक्षः प्रकृतिदत्त: वरः अस्ति। स न कस्यापि एकस्य सम्पत् भवितुमर्हति । अस्माभिः सर्वैः मिलित्वा वृक्षस्य संरक्षणं संवर्धनं समारोपणं च कर्त्तव्यम् । न तु विनाश: कार्यः’ इति दृढनिश्चयम् अकुर्वन् । अस्माभिः मानवैः अपि वृक्षसम्पत् वर्धनीया ननु ।

अनुवाद-


शब्दार्थ:


न्यग्रोधवृक्षः – बरगद का पेड़ । बहूपकारकः – बहुत अधिक उपकार करने वाला । बहुविधेभ्य: – अनेक प्रकार के । पथिकाः – राहगीर। पाथेयम् – रास्ते का भोजन। मार्गायासम् – रास्ते की थकान को। नीडानि – घोंसले । विरच्य – रचकर अथवा बनाकर । वल्मीकेषु – बिलों में । वायसः – कौआ। न्यगदत् – बोला। मदीय: – मेरा । डयमाना: – उड़ते हुए। फटाटोपं कुर्वन् – फण से क्रोध को प्रकट करते हुए, फुसकारते हुए । चंक्रम्य – घूमकर । अर्भकैः सह – पुत्रों के साथ । उषितवानस्मि – रह रहा हूँ । द्रुमम् – वृक्ष को। अभणत् – बोला । घोषयन् – घोषणा करते हुए। तत्रत्या: – वहाँ के । अजापुत्रः – बकरी का बच्चा । नन्दति – प्रसन्न होता है। समेषाम् – सभी की। दापयिष्यामि – दिलवाऊँगा। वृक्षच्छेदक: – वृक्ष को काटने वाला अर्थात लकङहारा । आह्वयामि – बुलाता हूँ । खण्डश: – टुकड़े-टुकड़े । छित्वा – काटकर । कुत्सिते – निन्दित में/बुरे में। छिनत्ति – काटता है। धीमान् – बुद्धिमान् । वृष्टिम् – वर्षा को। भूमाता – धरती माता। परापकारिण: – दूसरों का अपकार करने वाला। साहाय्यम् – सहायता को। स्वाश्रयमेव – अपने आश्रय को ही।


अभ्यास:


एकपदेन उत्तरं लिखत –

(क) ग्रामे कः वृक्षः आसीत् ?

(ख) के मार्गायासं परिहरन्ति स्म ?

(ग) कस्य ध्वनि: अन्तरिक्षम् अस्पृशत् ?

(घ) प्रकृतिदत्त: वर: कः ?

(ङ) तरो: पत्राणि खादन् कः नन्दति स्म ?


एकवाक्येन उत्तरं लिखत –

(क) सर्वैः कस्य निर्णयः स्वीकृत: ?

(ख) कः वृष्टिं वर्षति ?

(ग) वृक्षस्य आधारभूता का ?

(घ) अस्माभिः का वर्धनीया ?

(ङ) किं महत् पापम् अस्ति?


अधोलिखितप्रश्नानाम् उत्तराणि लिखत –

(क) शुकः किम् अवदत् ?

(ख) कीट: किं प्रत्यवदत् ?

(ग) वृक्षच्छेदनविषये काष्ठच्छेदकः किम् अवदत् ?

प्रदत्तशब्दैः रिक्तस्थानानि पूरयत

(नीडानि, अनिलं, मार्गायासं, सूर्यदेव:, चंक्रम्य)

(क) शाखान्तरं …………………. एक: कीट: अवदत् ।

(ख) पथिका: ………………………. परिहरन्ति स्म।

(ग) पक्षिण: शाखासु ..… विरच्य वसन्ति स्म।

(घ) वायुः ……………………….. ददाति।

(ङ) ……………. ……..प्रकाशं प्रयच्छति।

यथायोग्यं योजयत –
(क) प्राचीन: सर्पः करोति

(ख) वरुणदेवः न्यग्रोधवृक्षः

(ग) फटाटोपम् वृष्टिं वर्षति

(घ) सर्पाः वृक्षः

(ङ) प्रकृतिदत्त: वरः वल्मीकेषु

Leave a Comment