Up Board Solution For Class 9 Sanskrit Gady Bharti Chapter 5
UP BOARD SOLUTION FOR CLASS 9 SANSKRIT
Board | UP Board |
Textbook | UP Board |
Class | Class 9 |
Subject | Sanskrit |
Chapter | Chapter 5 |
Chapter Name | अस्माकं राष्ट्रियप्रतीकानि (गद्य – भारती) |
Category | UP Board Solutions |
राष्ट्रहितेऽनुरक्तानामात्मबलिं कर्तुम् सहर्षमुद्यतानाम् अग्रगण्यः चन्द्रशेखरः भारतस्य स्वातन्त्र्येतिहासेऽसौ सततमुल्लेखनीयः स्मरणीयश्च । स्वतन्त्रतायाः मधुरं फलं भुञ्जानाः वयमधुना प्रकामं मोदामहे । तद् वृक्षारोपकास्तु तं एवात्मबलिदायकास्तादृशाः वीराः एवासन् । प्रातः स्मरणीयास्ते वीराः कदापि भारतीयैरस्माभिः नैव विस्मर्तुं शक्यन्ते । तेषां विस्मृतिस्तु महती कृतघ्नता स्यात् । तेष्वेव वीरेषु मूर्धन्यः परमस्वतन्त्रश्चन्द्रशेखरः आजीवनं स्वतन्त्र एवासीत् । सततं प्रयतमानैरपि आरक्षकैः तत्करे लौहश्रृंखला न पिनद्धा । मातृभूमिपरिचारकः राणाप्रताप इव असावपि आत्मबलिदायको वीरः रक्तस्नातोऽपि स्वतन्त्र एव परिभ्रमन् प्राणानत्यजत् । जीवितः स तैः कथमपि न गृहीतः । देशभक्तानामादर्शभूतस्य चन्द्रशेखरस्य जन्म षडधिकैकोनविंशतिशततमे (१९०६) ख्रिष्टाब्दे जुलाईमासस्य त्रयोविंशतितमायां तारिकायां मध्यप्रदेशस्य भाँवरा ग्रामेऽभवत् । तस्य जनकः श्री सीतारामः स्वीयया धर्मपल्या जगरानी नामधेयया सह उन्नावजनपदस्य बदरकाग्रामात् गत्वा तत्रैव न्यवसत् । सः तत्र ‘अल्लीराजपुरराज्ये’ वृत्यर्थं कार्यमकार्षीत् । अष्टमुद्रात्मकं मासिकं वेतनञ्चालभत
एकदा चन्द्रशेखरः तस्यैवोद्यानस्य फलमेकं पितरमपृष्ट्वैव अत्रोटयत् । क्रोधाविष्टस्तज्जनकः सीतारामः प्रियं सुतमेकादशवर्षदेशीयं चन्द्रशेखरं गृहान्निस्सारयामास । क्रोधाविष्टः जनक: अवोचत्, गत्वा मालाकारं क्षमां याचस्व, परं स एवं कर्तुं नोद्यतः । गृहान्निर्गत्य वर्षद्वयमितस्ततः सः प्रतिनगरं भ्रमं-भ्रमं घोरं श्रमं कृत्वा जीविकां निरवहत् । दैववशात् सः बालकः वाराणसीमुपगम्य कस्याञ्चित् संस्कृतपाठशालायाम् संस्कृताध्ययनमकरोत् ।
एकदा कोऽपि दुष्टो युवा कामप्येकां भद्रयुवतीं पीडयन् चन्द्रशेखरेण बलात् गृहीतः । तं घराशायिनं कृत्वा तस्योरसि उपविष्टश्च चन्द्रशेखरः तं तावन्त्रमुमोच यावत् सः चञ्चलो दुष्टः धृष्टः निर्लज्जो युवा तां युवतिं भगिनिकेति नाकथयत् क्षमायाच्त्राञ्च नाकरोत् । अनया घटनया चन्द्रशेखरस्य महती ख्यातिः जाता । आचार्यनरेन्द्रदेवस्तेन प्रभावित: काशीविद्यापीठे तस्याध्ययनव्यवस्थां कृतवान् । यदा विद्यापीठस्यानेके छात्राः सम्मिलिताः जाताः तदाजादोऽपि तत्र सम्मिलितः त्रिवर्णं ध्वजमादाय ‘जयतु महात्मा गान्धी’, ‘जयतु भारतमाता’ इति घोषयन् न्यायाधीशस्य सम्मुखमानीतः । तदा स स्वकीयं नाम ‘आजाद’ इति पितृर्नाम ‘स्वाधीन’ इति गृहञ्च कारागारमवोचत्, तदा क्रुद्धो न्यायाधीशः तस्मै पञ्चदशकशाघातदण्डमददात् । तदापि सः ‘जयजय’ कारं कृत्वा मनसि ब्रिटिशसाम्राज्यमुन्मूलयितुं संकल्पमकरोत् । कशाघातेन पीड्यमानोऽपि सः निश्चल एवासीत् । ततः बहिरागत्य सः जनैरभिनन्दितः द्वाविंशत्यधिकैकोनविंशतिशततमे (१९२२) वर्षे यदा महात्मना गान्धिमहोदयेनान्दोलनम् निवारितं तदाजादो दुःखितो जातः यतोऽहिंस्रकान्दोलने तस्य निष्ठा नासीत् ।
दैवादाजादस्य परिचय: क्रान्तिकारिणा प्रणवेशचटर्जीमहोदयेन सह संजातः अनेन प्रसिद्धक्रान्तिकारिणा मन्मथनाथगुप्तेन साकं तस्य परिचयः कारितः । आजादस्य सत्यनिष्ठामवलोक्य मन्मथनाथगुप्तः क्रान्तिकारिदलस्य सदस्यं तमकरोत् । तदानीं क्रान्तिकारिदलस्य नेता अमरबलिदायी रामप्रसादविस्मिलः आसीत् । अल्पीयसैव समयेन आजादः केन्द्रियक्रान्तिकारिदलस्य सदस्यो जातः । गुलिकाचालने लक्ष्यभेदने च तेन महत् कौशलमवाप्तम् । अतः सः तस्मिन् दले अतीव समादृतः आसीत् । पञ्चविंशत्यधिकैकोनविंशतिशततमे (१९२५) वर्षे अगस्तमासस्य नवम्यां तारिकायां जायमाने काकोरीकाण्डे आजादेन सक्रियभागो गृहीतः । तस्मिन्नवसरे आजादं विहाय अन्ये बहवः सहयोगिनः निगडिताः शूलमारोपिताश्च । तदानीं परमदुःखितोऽपि आजादः कान्तेविरतो न जातः प्रत्यत क्रान्तिकारिसेनायाः नायको जातः ।
तेनानेकानि कार्याणि कृतानि, अनेकेऽधिकारिणः आरक्षिणश्च हताः । लालालाजपतरायस्य हन्ता आरक्षिप्रधानः ‘साण्डर्स’ नामधेयोऽपि आजादेन निहतः ।
एकोनत्रिंशदधिकैकोनविंशतिशततमे (१९२९) वर्षे अप्रैलमासस्य अष्टम्यां तारिकायाम् आजादस्य परामर्शेनैव सरदारभगतसिंह: बटुकेश्वरदत्तश्च विधानसभाभवने बमविस्फोटमकुरुताम् । तस्मिन् समये चन्द्रशेखरोऽपि विधानसभाभवनाद् वहिः मोटरयानमादायोपस्थितः आसीत् । परं भगतसिंहः बटुकेश्वरदत्तश्च विधानसभाभवने एव आत्मसमर्पणं कृतवन्तौ पश्चात् तौ द्वावपि शूलमारोपितौ । एवम् आजादस्य अनेके सहयोगिनः भगवतीचरणसालिकरामप्रभृतयो मृताः । अतः आजादश्चन्द्रशेखरो नितरां खिनो जातः, केन्द्रियक्रान्तिकारिदलस्य सदस्ययोः यशपालवीरभद्रयोः संदिग्धाचरणेन तु आजादो विक्षुब्धोऽभवत् । यदा दलस्य सदस्याः एव विश्वासघातिनो जाताः तदा तस्य दुःखानुभूतिः स्वाभाविकी एव आसीत् । तदापि सः स्वमार्गात् विचलितो न जातः । कर्णपुरस्य वीरभद्रत्रिपाठिनः विश्वासघात एव आजादस्य कृतेऽनिष्टकारको जातः ।
एकत्रिंशदधिकैकोनविंशतिशततमे (१९३१) वर्षे फरवरीमासस्य सप्तविंशतितमायां तारिकायां प्रातः नववादने प्रयागस्य अल्फ्रेड नाम्नि उद्याने एकस्य वृक्षस्याधश्छायायाम् आजादः यशपालेन सुखदेवेन च समं वार्त्तालापं कुर्वन् उपविष्टः आसीत् । तस्मित्रेव समये गच्छन् वीरभद्रत्रिपाठी दृष्टः यशपालोऽपि उत्थाय चलितः, आजादः सुखदेवराजेन सह वार्तालापं कुर्वन्नेवासीत् । तदा आरक्षिणः आगत्य परितोऽवरुद्धवन्तस्तम् ।
स्वकीयं सहयोगिनं कथञ्चित्ततः उद्यानात् निःसार्य आजादः पेस्तौलअस्त्रं संसाधितवान् । तदा विपक्षतः गुलिकावृष्टिः जाता । विपक्षतः आरक्षिणां गुलिकावृष्टिं दर्श-दर्श आजादस्य मनः आकुलं नाभूत् । आजादोऽपि स्वकीयेनास्त्रेणानेकान् विमुग्धान् आहतांश्चाकरोत् । यदास्त्रे एका गुलिकावशिष्टा आसीत् तदा तया स्वमेवाहन् । एवमाजादश्चन्द्रशेखरो यशःशरीरेणामरतामभजत् ।
एवं विधाः अमरबलिदायिनो देशाभिमानिनो देशसंरक्षकाः क्रान्तिकारिणो नवयुवानः प्रतिदिनं नोत्पद्यन्ते । तेषां जन्म युगे कदाचिदेव जायते । यतश्च एतादृशाः अमरयुवानः युगान्तरमुपस्थापयितुमेवोत्पद्यन्ते । एतेषामावश्यकतापि क्वाचित्की कदाचित्की एव भवति । एवं विधाः आजादस्य चन्द्रशेखरस्य द्रष्टारः साक्षात्कर्तारः अद्यापि जीवन्ति ये आत्मानं पावनं मन्यन्ते । भारतभूरपि धन्यैव यत्र एतादृशा आत्मबलिदायिनो शूराः स्वकीयेन जन्मना भूमिं पावनां कृतवन्तः, शोणितेन सिञ्चितवन्तश्च
स्वातन्त्र्यमाप्तुकामोऽयं क्रान्तिकारी दृढव्रतः ।
जातोऽमरो बलेर्दानादाजादश्चन्द्रशेखरः । ।
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में