Up board solution for class 7 sanskrit chapter 2 चित्र पाठ:

Up board solution for class 7 sanskrit chapter 2

Up board solution for class 7 sanskrit chapter 2 चित्र पाठ:

पाठ 2 चित्र पाठ का सम्पूर्ण हल

अयं कः ?

अयं राष्ट्रपिता मोहनदासकरमचन्द-गान्धी ।

कथम् अयं राष्ट्रपिता ?

अयं वर्तमानभारतराष्ट्रस्य जनकः अस्ति ।

कथम् अयं प्रसिद्धः ?

अयं सत्याग्रहेण अहिंसान्दोलनेन च परतन्त्रं भारतं स्वतन्त्रम् अकारयत् ।

अयं कः ?

अयं अस्माकं राष्ट्रस्य तृतीयः राष्ट्रपतिः डॉ० जाकिर हुसेनमहाभागः ।

कथम् अयं तृतीयः राष्ट्रपतिः ?

अस्य किं वैशिष्ट्यम् आसीत् ?

अयं नूतनायाः प्राथमिक शिक्षापद्धतेः विशेषज्ञः आसीत् ।

अयं कः ?

अयं भारतस्य एकादशः राष्ट्रपति डॉ० ए० पी० जे० अब्दुलकलामः । अस्य जन्म कदा अभवत् ?

अस्य जन्म 1931 तमे वर्षे अक्टूबर मासस्य पचदशे दिनाङ्‌के अभवत् । अस्य जन्म तामिलनाडु प्रान्तस्य रामेश्वर नामके स्थाने अभवत् । कथम् अयं प्रसिद्ध ?

अयं महान् वैज्ञानिकः । “मिसाइलमैन” इति नाम्ना प्रसिद्धः अभवत ।

अयं कः ?

अयं डॉ० भीमराव अम्बेडकरमहाभागः ।

कथम् अयं प्रसिद्धः ?

स्वतन्त्रभारतस्य संविधाननिर्माणे अस्य अपूर्वं महत्त्वपूर्णच योगदानम् आसीत् ।

इयं महाराज्ञी लक्ष्मीबाई ।

किमर्थम् इयं प्रसिद्धा ?

इयं लक्ष्मीबाई 1857 तमे वर्षे प्रथम स्वातंत्रय

संग्रामस्य वीरांगना आसीत्। त्रयोविंशतिवर्षायु प्राप्ता इयं राजमहिषी आंग्लसाम्राज्यस्य सैन्यबलं प्रतिकर्तुं प्रयत्नवती। रणक्षेत्रे वीरगतिं प्राप्तवती परच यावज्जीवनं आंग्लशासकानां झाँसीनगरातिक्रमणं नाङ्गीकृतवती ।

इयं का ?

इयं ‘भारतकोकिला’ श्रीमतीसरोजिनी नायडूमहाशया ।

कथम् इयं ‘भारतकोकिला’ ?

इयं विदुषी कवयित्री सुमधुरभाषिणी च आसीत् ।

इयं स्वतन्त्रभारते उत्तरप्रदेशस्य

प्रथमं राज्यपालपदम् अभूषयत् ।

इयं का ?

इयं प्रियदर्शिनी इन्दिरागान्धी।

इयं कथं प्रसिद्धा ?

इयम् अस्माकं देशस्य प्रथम-महिला-प्रधानमन्त्री आसीत् । सर्वे जनाः इमां कुशलप्रशासिकारूपेण श्रद्धया स्मरन्ति।

इयं का ?

इयं भारतानुरागिणी परमविदुषी डॉ० एनीबेसेण्ट महोदया।

अस्याः का विशेषता ?

इयं जन्मना आङ्ग्लदेशीया ।

इयं हिन्दू-विश्वविद्यालयस्य निर्माणाय प्रभूतं धनं विस्तृतं भूखण्डं च अददात् । अस्याः भाषणेषु रचनासु च संस्कृतवाङ्मयस्य संस्कृतभाषायाः च गौखं प्रकाशितम् अस्ति ।

इयं देशस्य स्वतन्त्रतायै महत्त्वपूर्ण योगदानम् अकरोत् ।

लखनऊनगरम्

लखनऊनगरम् उत्तरप्रदेशस्य राजधानी अस्ति ।

इदं प्राचीनं सुरम्यं च नगरम् अस्ति ।

अत्र बहूनि दर्शनीयानि स्थलानि सन्ति, यथा-रेजीडेंसीस्थलम्, इमामबाड़ाभवनम्, सचिवालयश्च ।

इदं किम ?

इदं रेजीडेंसीस्थलम् अस्ति ।

इदम् अस्माकं देशभक्तानाम् आत्मत्यागं स्मारयति ।

प्रथमे स्वतन्त्रतासंग्रामे 1857 तमे वर्षे भारतीयाः वीराः

आङ्ग्लशासनस्य यदा विरोधम् अकुर्वन् तदा देश-भक्ताः अत्रापि आङ्ग्लान् आक्रान्तवन्तः । अस्मिन् युद्धे राष्ट्रभक्तैः स्वरक्तं प्रवाहितम्। तेषां त्यागेनैव स्वतन्त्रतायाम् एकं सोपानं निर्मितम् ।

इदं सचिवालयभवनम् अस्ति ।

अस्मिन् भवने विधानसभायाः विधानपरिषदश्च अधिवेशनानि भवन्ति । अस्मिन् एव भवने स्थित्वा राज्यस्य मन्त्रिणः सचिवाः अन्ये चाधिकारिणः राजकार्य सञ्चालयन्ति। सचिवालये एव उत्तरप्रदेशशासनस्य मुख्यः कार्यालयः अस्ति ।

इदं किम् ?

इदं आंचलिक-विज्ञान-केन्द्रम् अस्ति ।

किमर्थम् इदं प्रसिद्धम् ?

इदं हि अनुभवाधारित शिक्षा प्रदानाय विख्यातं वर्तते ।

इदं केन्द्रद्रं लखनऊनगरस्य मध्ये स्थितं अस्ति ।

अस्मिन् केन्देर अन्वेषणकक्षम् इति नाम्नः भवनमस्ति ।

अस्य कक्षे भूजलीयान्वेषणं जैव प्रौद्योगिकीक्रान्तिः व्यावहारिक विज्ञानं चेति तिस्त्रः दीर्घिकाः सन्ति ।

इदम् इमामबाड़ा-भवनम् अतिमनोहरम् अस्ति

इदम् अवधशासकानां स्मारकम् अस्ति । अस्य भवनस्य छदिः अतिविस्तृता अस्ति। इयं स्तम्भैः विनापि बहुकौशलेन निर्मिता अस्ति। अस्मिन् एकं विचित्रं सोपानमण्डलम् अस्ति । तत्र नवागन्तुकाः बहुधा मार्ग विस्मरन्ति ।

अत एव जनाः इदं भवनं ‘भूलभुलैया’ इति वदन्ति ।

(शब्दार्थः)

सत्याग्रहेण = सत्य के लिए मन, वचन और कर्म से दबाव डालना। अन्यत् = और । अयच्छत् = दिया। कवयित्री =कविता करने वाली। असहत = सहा । अभूषयत् = शोभित किया। प्रेषितवान् = भेजा। भारतानुरागिणी = भारतदेश से प्रेम रखने वाली। प्रभूतम् बहुत । सुरम्यम् =अतिसुन्दर । आक्रान्तवन्तः = सताये, डराये। स्मारयति याद दिलाती है। विचलन्ति स्म = विचलित होते थे। छदिः छत। स्तम्भैः विनापि खम्भों के बिना भी। अधिवेशनानि = बैठकें ।

अभ्यासः

  1. उच्चारणं कुरुत पुस्तिकायां च लिखत-

राष्ट्रपिता अहिंसान्दोलनेन त्यागेनैव कवयित्री संस्कृतवाङ्मयस्य आक्रान्तवन्त अविष्कृताः, ज्योतिर्विद्, समर्थितम्, त्रयोविंशतिवर्षायु, साम्राज्यस्य, भूजलीयान्वेषणम्, अन्वेषणकक्षम् ।

  1. एकपदेन उत्तरत-

(क) ‘राष्ट्रपिता’ नाम्ना कः प्रसिद्धः ?

(ख) “मिसाइलमैन” इति नाम्ना कः प्रसिद्धः ?

(ग) उत्तर-प्रदेशस्य प्रथमं राज्यपालपदं का अभूषयत् ?

(घ) इन्दिरागान्धी कस्य सुपुत्री ?

जवाहलाल नेहरू महोदयस्य

(ङ) उत्तरप्रदेशस्य राजधानी का ?

लखनऊ नगरम्

(च) ‘शून्यम्’ इति अंकस्य आविष्कर्ता कः आसीत् ?

आर्यभट्टः

  1. पूर्णवाक्येन उत्तरत-

(क) डॉ० भीमराव अम्बेडकरस्य संविधाननिर्माणे कीदृशं योगदानमासीत् ?

डॉ० भीमराव अम्बेडकरस्य संविधान निर्माण अपूर्व योगदानमासीत्

(ख) श्रीमती सरोजिनीनायडूः किं पदमभूषयत् ?

श्रीमती सरोजिनी नायडूः उत्तर प्रदेशस्य प्रथमं राज्यपाल पदम्भूषयत् ।

(ग) जनाः इन्दिरां केन रूपेण स्मरन्ति ?

जनाः इन्दिरां कुशल प्रशासिका रूपेण स्मरन्ति ।

(घ) डॉ० एनीबेसेण्टमहोदया हिन्दू-विश्वविद्यालयाय किम् अददात् ?

डॉ० एनीबेसेन्ट महोदया हिन्दू विश्वविद्यालयाय प्रभूतं धनं विस्तृतं भूखण्डं च अददात्

(ङ) रेजीडेंसीस्थले भारतभक्तैः किं परवाहितम् ?

रेजीडेन्सीस्थले भारतभक्तैः स्वरक्तम् प्रवाहितम् ।

  1. सन्धि-विच्छेदं कुरुत –

पदम् सन्धिविच्छेदः

यथा- अहिंसान्दोलनेन अहिंसा आन्दोलनेन

अत्रापि……………अत्र + अपि

चासहत …………. च + असहत

नातिदूरे………………….न + अतिदूरे

  1. (क) मजूषातः उचितपदानि चित्वा वाक्यानि पूरयत-

(1857 तमे वर्षे, सत्याग्रहेण, विदुषी कवयित्री, लखनऊनगरे)

(क) महात्मागाँधी…………….. परतन्त्रं भारतं स्वतन्त्रम् अकारयत् ।

सत्याग्रहेण

(ख) लक्ष्मीबाई…..……. प्रथम स्वातंत्रय संग्रामस्य वीरांगना आसीत् ।

1857 तमे

(ग) श्रीमतीसरोजिनीनायडूमहाशया.. …………. आसीत् ।

विदुषी कवयित्री,

(घ) विज्ञान-आंचलिक-केन्द्रम्. .स्थितमस्ति ।

लखनऊनगरे

(ख) उचितं संयोजनं कुरूत-

(क) रेजीडंसीस्थलम् —–अनुभवाधारित शिक्षणप्रदानाय ।

(ख) इमामबाड़ा ——- देशभक्तानाम् आत्मत्यागम् ।

(ग) सचिवालयः ——प्रदेशस्य मुख्यकार्यालयः ।

(घ) विज्ञान——आंचलिक केन्द्रम् अवधशासकानां स्मारकम् ।

उत्तर —

(क) रेजीडंसीस्थलम् —–देशभक्तानाम् आत्मत्यागम् ।

(ख) इमामबाड़ा——आंचलिक केन्द्रम् अवधशासकानां स्मारकम् ।

(ग) सचिवालयः—–प्रदेशस्य मुख्यकार्यालयः ।

(घ) विज्ञान——अनुभवाधारित शिक्षणप्रदानाय ।

7- संस्कृतभाषायाम् अनुवादं कुरुत –

(क) महात्मा गान्धी ने देश के लिए कार्य किया।

महात्मा गान्धी देशाय कार्यं अकरोत् ।

ख) यहाँ बहुत दर्शनीय स्थल हैं।

अत्र बहूनि दर्शनानि स्थलानि सन्ति ।

(ग) इस स्मारक को देखने लोग आते हैं।

इदं स्मारकं दर्शनाय जनाः आगच्छन्ति ।

(घ) रेजीडेंसी-स्थल पर देशभक्तों को याद करते हैं।

रेजीडेन्सी स्थले देशभक्तान् स्मरन्ति

(ङ) राजभवन में राज्यपाल रहते हैं।

राजभवने राज्यपालः निवसति

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment