महर्षि वाल्मीकि पर संस्कृत निबंध | Essay on Valmiki in Sanskrit
आदिकवि: वाल्मीकि:
महर्षि वाल्मीकिः संस्कृतसाहित्यस्य आदिकविरस्ति | अयं मर्यादापुरुषोत्तमस्य रामस्य चरितवर्णनाय ‘रामायणम्’ नाम आर्षकाव्यम् अरचयत्। रामायणस्य फलश्रुत्यध्याये रामायणस्य कर्तृत्वेन वाल्मीकेः उल्लेख: प्राप्यते । क्रौञ्चद्वन्द्वस्य एक व्याधेन व्यापादितं दृष्ट्वा अस्य कवेः मनसि समुत्थित: शोक: एव श्लोकरूपेण आविर्भूतः । उक्तञ्च –
क्रौञ्चद्वन्द्ववियोगोत्थ: शोक: श्लोकत्वमागतः ।
आदिकविरयम् ऋषेः प्रचेतस: दशम: पुत्र आसीत्। अयं जात्या ब्राह्मणः राज्ञो दशरथस्य च मित्रमासीत्। मुनेर्वाल्मीकेः आश्रमे दशसहस्रसंख्याकाः छात्रा: • उषित्वा शिक्षामगृह्णन् । अस्याश्रमः गङ्गाया: तमसानद्याश्च तीरे आसीत्। वाल्मीकेः आश्रमविषये इदमपि मतं प्राप्यते यत् अस्याश्रम: यमुनायास्तटे चित्रकूटस्य समीपे आसीत्। तत्रैव उषित्वा वाल्मीकि रामायणस्य रचनामकरोत्।
वाल्मीकिना विरचितं रामायणम् लोकेऽस्मिन् सर्वतो मधुरम्, लोकप्रियम्, सर्वतश्चाधिकं हृदयस्पर्शि ऐतिहासिक काव्यमस्ति । अस्मिन् रामस्य कथां • वर्णयित्वा कविना लोकसमक्षम् एक आदर्श: प्रस्तुतीकृत: यत् ‘रामादिवद्
प्रवर्तितव्यं न रावणादिवत् रावण : सीताया: अपहरणम् अकरोत् अतः तस्य समूलं नाशोऽभवत्। राम: रामायणस्य सर्वगुणसम्पन्न: आदर्शनायकोऽस्ति । रामस्य चरितानि पठित्वा
जनाः स्वकर्तव्यस्य, लोकव्यवहारस्य शौर्यस्य च शिक्षा गृह्णन्ति । इयं रामायणी कथा इयती रुचिपूर्णा अस्ति यत् जावासुमात्रा बोर्नियो बालीचम्पाथाईलैंड प्रभृतिदेशेषु सर्वत्र प्रचारमलभत।
परवर्तिभिरनेकै: महाकविभिः अस्य कथामवलम्ब्य अनेकानि काव्यानि नाटकानि विरचितानि अत एव इदं महाकाव्यं चिरस्थायिनीं कीर्तिमलभत। अत एवोच्यते –
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।
तावद् रामायणीकथा लोकेषु प्रचलिष्यति ।।