श्रीमद्भागवत गीता पर निबंध | Essay on Bhagwat Geeta In Hindi
भगवद्गीता
अयं ग्रन्थः महर्षिणा वेदव्यासेन रचितस्य महाग्रन्थस्य महाभारतस्य अङ्गभूतः अस्ति । महाभारतयुद्धकाले यदा अर्जुनः मोहग्रस्तः युद्धविरतः च अभवत् तदा श्रीकृष्णेन यत्किञ्चिदुपदिष्टं तत् गीता-ग्रन्थरूपेण प्रसिद्धम् । अस्मिन् कर्म-ज्ञान सांख्य- योगानां विषये उपदेश: विद्यते कर्मयोग: गीताया: प्रमुख: उपदेशः अस्ति अतएव अस्य ग्रन्थस्य अपरं नाम कर्मयोगशास्त्रम् अपि अस्ति । अस्य मननं कृत्वा मनुष्यः कर्मयोगी भवति। सः मनसा इन्द्रियैः शरीरेण च क्रियमाणेषु कर्मसु कर्तृत्वाभिमानं त्यजति । अयं ग्रन्थः संन्यासं नोपदिशति अपितु योग: कर्मसु कौशलम्” इत्युपदिशति । गीतायां । महत्त्वम् अस्ति. ष्कामकर्मणः विशिष्टं
ॐ “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन”।
अस्मिन् ग्रन्थे भगवता श्रीकृष्णेन उपदिष्टम् यत् आत्मा नित्य: शरीराणि च अनित्यानि अत: मरणात् न भेतव्यम् । नरः वीरो भूत्वा अन्यायस्य प्रतीकार कुर्यात् । एवं प्रकारेण गीता सर्वान् मनुष्यान् सर्वेषु लौकिककर्मसु कौशलम् शिक्षयति । अर्जुन: उपदेशेन नष्टमोहो भूत्वा कृष्णस्य धर्मयुद्धे प्रवृत्तः अभवत्। गीताया: उपदेशसारं प्राप्य मनुष्यः आसुरीं सम्पदं परित्यज्य दैवीं सम्पदम् अर्जितम् प्रवृत्तो भवति। अतः सर्वैः लोकैः गीतोपदेशम् अनुकृत्य जीवनम् सफलं कर्त्तव्यम् । गीताविषये केनापि कविना सत्यमुक्तम्