Sanskrit essay swatantra diwas स्वतन्त्रता दिवस: निबंध

संस्कृत निबंध

Sanskrit essay swatantra diwas स्वतन्त्रता दिवस: निबंध

स्वतन्त्रता दिवस: पर संस्कृत भाषा में निबंध लिखिए

अस्माकं भारतदेश: सप्तचत्वारिंशदुत्तर – नवशतैकसहस्रतमे (1947) वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के स्वतन्त्रः अभवत्। दिनेऽस्मिन् प्रतिवर्षं सम्पूर्ण भारतवर्षे स्वतन्त्रतादिवसोत्सव: मन्यते । अयं दिवस: भारतीयेतिहासे स्वर्णाक्षरै: लिखितमस्ति यत: अस्मिन् एव दिवसे भारतवर्षः मुक्तो भूत्वा स्वातन्त्र्यम् अलभत । भारतस्य राजधान्यां दिल्लीनगरे स्वतन्त्रादिवसोत्सवः विशेषरूपेण दर्शनीयः भवति।

प्रातःकाले सप्तवादनसमये अपारजनसमूह रक्तदुर्गस्य दूरस्था: अपि मुख्यद्वारे एकत्रितो भवति महान्तो नेतारः वैदेशिका: अतिथयश्च मञ्चे उपविशन्ति भारतस्य प्रधानमन्त्री त्रिवर्णात्मिकां राष्ट्रपताकाम् आरोहयति, ततः ‘जन-गण-मन’ इति राष्ट्रगीतं गीयते, पश्चाच्च प्रधानमन्त्री देशवासिनः सन्दिशति। दूरदर्शनेन एतेषां कार्यक्रमाणाम् प्रसारणं भवति येन जना: सोल्लासम् कार्यक्रमान् पश्यन्ति।

दिवसेऽस्मिन् न केवलं राजधान्यामेव अपितु सर्वेषु प्रदेशेष्वपि विविधानि कार्यक्रमा: आयोज्यन्ते यथा कविभि: देशभक्तिपरा: कविता: पठ्यन्ते, वीररसमयानि गीतानि गीयन्ते, स्वतन्त्रता संग्रामसेनानिन: स्मर्यन्ते, क्रीडा भाषण प्रतियोगिता: समायोज्यन्ते, अन्ते च मिष्टान्नानि वितीर्यन्ते । राष्ट्रपर्व इदं सर्वेषु भारतीयेषु नवोत्साहं, नवां कल्पनाञ्च जनयति । अवएव अवसरेऽस्मिन् अस्माभिः सर्वैरपि प्रतिज्ञा कर्त्तव्या यद् शरीरेण, मनसा, धनेन, प्राणपणेनापि भारतमातुः सेवां सदा करिष्यामः।

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top