Sanskrit essay priyam me bharat प्रियं मे भारतम् निबंध

संस्कृत निबंध

Sanskrit essay priyam me bharat प्रियं मे भारतम् निबंध

प्रियं मे भारतम् पर संस्कृत भाषा में निबंध लिखो

अस्माकं प्रियं भारतम् ‘आर्यावर्त: “भारतवर्षम्” हिन्दुस्तान’ ‘इण्डिया’ इति चतुर्भि: नामभि: प्रसिद्धम् परन्तु सम्प्रति जनैः अस्य नाम ‘भारतम्’ इत्येव स्वीकृतम्। भारतं कश्मीरात् कन्याकुमारीपर्यन्तं सुविस्तृतं राजते। अस्य मुकुट इव नगाधिराज: हिमालय: उत्तरस्यां दिशि शोभते । दक्षिणे चास्य हिन्दमहासागर: विद्यते।

अद्यत्वे भारते अष्टाविंशतिः राज्यानि सन्ति तानि सर्वाण्यपि प्रादेशिक विधानसभाभिः सञ्चाल्यन्ते दिल्लीनगर भारतस्य राजधानी केन्द्रं चास्ति। केन्द्रीय शासनं सांसदै: संचाल्यते। सांसदबहुसंख्याकदलेन मन्त्रिमण्डल निर्मीयते । सर्वोपरि राष्ट्रपति: देशस्य शासनं करोति किं बहुना भारतं सर्वोच्चसत्तासम्पन्न प्रजातन्त्रात्मकं गणराज्यमस्ति।

भारते विविधा: जातयः सम्प्रदायाः धर्मा: भाषाश्च परं सर्वे भारतीया: परस्परं प्रेम्णा व्यवहरन्ति । अत्रत्या: गङ्गादिनद्यः सकलं जगत् पुनन्ति। अत्रैव अवतीर्णा: श्रीराम:, श्रीकृष्ण, महात्माबुद्ध: महावीर, शङ्करादिमहामानवाः । अत्रैव रघु: चन्द्रगुप्त:, अशोक, विक्रमादित्य प्रभृतयः महान्त: शासका: अभवन् । आधुनिककाले गान्धि: जवाहरलाल, सुभाष चन्द्रशेखरः, मालवीयादय: महापुरुषा: अजायन्त। स्वकार्यैश्च भारतस्य महत्त्वं वर्धितवन्तः । राष्ट्रभक्ति: अस्माकं प्रथमं कर्त्तव्यम् अस्ति। अस्माभिः सर्वैरपि भारतस्य सेवा मनसा, वाचा कर्मणा च करणीया। सम्प्रदाय जाति-भाषा प्रदेशादिभेदकतत्त्वानि विस्मृत्य ऐक्यं विधाय भारतस्य रक्षा, उन्नतिः च कर्त्तव्या भारतस्य वैशिष्ट्यं प्रतिपादयन्
केनापि सत्यमेवोक्तम् ——

गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ।

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top