sanskrit essay on janmabhoomi in hindi जननी जन्मभूमिश्च स्वर्गादपि गरीयसी निबंध हिंदी
संसारेऽस्मिन् जननी अस्मभ्यं यानि यानि सुखानि प्रयच्छति, जन्मभूमिश्च तथैव सौविध्यानि ददाति । जन्मदात्री माता जन्मभूमिश्च स्वर्गाद् अपि श्रेष्ठा वरिष्ठा च वर्तते । माता कुमाता कदापि न भवति । सा जन्मन प्रभृति अतीव निश्छलप्रेम्णा पुत्रं पुत्रीं च लालयति, पालयति, स्वदुग्धं पाययित्वा शिशुं वर्धयति स्वयं च महत्कष्टानि अनुभूय तं सुखयति, महद्भयाच्च रक्षति।
शीततौं रात्रिकालेषु बालस्य मूत्रेण आद्रीभूताऽपि विष्टरे स्वयं स्वपिति, परन्तु बालं च शुष्कस्थाने शय्यायां स्वापयति । किमधिकं माता स्वसन्ततिसुखाय रक्षणाय च स्वदुर्लभप्राणानपि दातुम् उद्यता भवति। अतः सत्यमिदं कथितं यत् जननी स्वर्गादपि अधिक सुखं प्रयच्छति।
भासस्य कथनानुसारेण माता किल मनुष्याणां देवतानाम् च दैवतम्। वस्तुत: जन्मभूमि: जननीवत् अस्मान् सर्वान् नानाविधानि अन्नानि, फलानि च दत्त्वा यावज्जीवनं पालयति पोषयति संवर्धयति च। भूमिः अस्मभ्यं धनं, धातून, रत्नानि च प्रयच्छति। जन्मदात्री कतिचिद्वर्षानन्तर स्वकर्त्तव्यं पूरयित्त्वा निवृत्ता भवति; किन्तु जन्मभूमिः अस्माकं जीवनस्य अन्तिम क्षणं यावत् स्वान्नजलफलादिभिः अस्मान् पोषयति। वयं च अन्तिमं श्वासम् अत्रैव नयामः पशुपक्षिषु अपि स्वमातृभूमिं प्रति स्नेहभाव: दृश्यते। मानवः तु विशेषरूपेण विवेकशील: मनस्वी च वर्तते । अतः मातृभूम्यै तस्य स्नेह: स्वाभाविक:। सुष्ठुक्तम् अथर्ववेदेऽपि “माता भूमि: पुत्रोऽहम् पृथिव्याः”। खगाः अपि स्वदेशभूमिं बहु स्निह्यन्ति
अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम् ।
रमते न मरालस्य मानसं मानसं विना ।।
चन्द्रशेखर भगतसिंह राजगुर्वादय: देशभक्ता: जन्मभूमिस्वतन्त्रतायै स्वकीयान् प्राणान् दत्त्वा अमरा: जाता: मातृभूमे सीमां परिरक्ष्य सैनिकाः जन्मभूम्या: ऋणात् मुक्ताः भवन्ति ।
स्वर्णमयीं लड़कां विजित्य राम: लक्ष्मणम् अवदत् –
अपि स्वर्णमयी लङ्का, न मे लक्ष्मण रोचते।
जननी जनमभूमिश्च स्वर्गादपि गरीयसी ।