
Bhaswati class 12 solutions chapter 5 दौवारिकस्य निष्ठा full solution
1 (क) .प्रतापदुर्गदौवारिकः कस्य ध्वनिम् इव अश्रौषीत्?
उत्तर–प्रतापदुर्गदौवारिकः गौरसिंहस्य ध्वनिम् इव अश्रौषीत् ।
(ख) .काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?
उत्तर–काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः संन्यासिनः विशेषणानि सन्ति ।
(ग) . कः तुरीयाश्रमसेवी अस्ति?
उत्तर–संन्यासी तुरीयाश्रमसेवी अस्ति ।
(घ) . महाराजस्य सन्ध्योपासनसमयः कदा भवति?
उत्तर–महाराजस्य सन्ध्योपासनसमयः प्राह्णे भवति ।
(ङ) .के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?
उत्तर–नीचा: उत्कोचलोभेन स्वामिनं वञ्चयन्ति ।
(च) . त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कः अवदत्?
उत्तर–त्यज ! नाहं पुनरायास्यामि, नाहं पुनरेवं कथयिष्यामि, महाशयोऽसि, दयस्व इति संन्यासी अबदत ।
(छ) . दौवारिकस्य निष्ठा केन परीक्षिता?
उत्तर– दौवारिकस्य निष्ठा गौरसिंहेन परीक्षिता ।
2. पूर्ण वाक्येन उत्तरत
(क) रात्रौ के के प्रविशन्ति?
उत्तर–रात्रौ परिचिताः, प्राप्तपरिचयपत्राः, आहूताः वा प्रविशन्ति ।
(ख) .दीपस्य समीपमागत्य सन्यासिना किम् उक्तम्?
उत्तर– दीपस्य समीपमागत्य संन्यासिना उक्तम्-“दौवारिक ! न मा प्रत्यभिजानासि” इति ।
(ग) .महाराजं प्रत्यभिज्ञाय दौवारिकः किम् अवदत्?
उत्तर–महाराज प्रत्यभिज्ञाय दौवारिकः अवदत्-“कथं श्रीमान् गौरसिंहः ? आर्य ! क्षम्यताम्, अनुचितव्यवहार एतस्य ग्राम्यवराकस्य” इति ।
(घ) .कः कम् कदठोरभाषणैः तिरस्करोति?
उत्तर–दौवारिकः संन्यासिनं कठोरभाषणैः तिरस्करोति ।
(ङ) .“दौवारिकस्य निष्ठा” अयम् पाठः कस्मात् ग्रन्थात् गृहीतः?
उत्तर– ‘दौवारिकस्य निष्ठा’ अयं पाठः ‘शिवराजविजयः’ इति ग्रन्थात् गृहीतः ।
(च) .शिवगणाः कीदशाः आसन्?
उत्तर–शिवगणा: लोभिनः न आसन् न च स्वामिवञ्चकाः आसन् ।
(छ) .दौवारिकः संन्यासिनम् कम् अमन्यत?
उत्तर–दौवारिकः संन्यानिवम् कस्यापि देशद्रोहिणः गूढचरम् अमन्यत् ।
३- प्रश्न निर्माण कुरु
(क) .महाराजशिक्वीरस्य ओरज्ञां वयं शिरसा वहामः ।
उत्तर–कस्य आज्ञा वयं शिरसा वहाम: ?
(ख) .नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसे पातयन्ति ।
उत्तर–के उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसि पातयन्ति ?
(ग) .दुर्गाभ्यक्षः एव यथोचितम् व्यवहरिष्यति ।
उत्तर–कः एव यथोचितं व्यवहरिष्यति ?
3 (घ) .दौवारिकः सन्यासिनम् आकृष्य नयनेव प्रचलितः ।
उत्तर–दौवारिक: कम् आकृष्य नयन्नेव प्रचलितः ?
3 (ङ) .दौवारिकस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिहः अवदत् ।
उत्तर–कस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिंहः अवदत् ?
(च) .दीपस्य समीपमागत्य संन्यासिना उक्तम् ।
उत्तर–दीपस्य समीपमागत्य केन उक्तम् ?
(छ) .संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते ।
उत्तर–क: तुरीयाश्रमसेवी इति प्रणम्यते ?
(ज) .प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम् अश्रौषीत् ।
उत्तर–प्रतापदुर्गदौवारिकः कस्यापि काम् अश्रौषीत् ?
4- समासविग्रहः क्रियताम्-
(क) प्रतापदुर्गदौवारिकः (ख) दीपप्रकाशे
(ग) श्षणानन्तरम् (घ) पादध्वनिः
(ड) दाःस्थेन (च) कटोरभाषणैः
(छ) गम्भीरस्वरेण
उत्तर:
(क) प्रतापदुर्गदौवारिकः → प्रतापस्य दुर्गः इति तस्य प्रतापदुर्गस्य दौवारिकः ।
(ख) दीपप्रकाशे → दीपस्य प्रकाशः, तस्मिन् दीपप्रकाशे ।
(ग) क्षणानन्तरम् → क्षणेन अनन्तरम् इति क्षणानन्तरम् ।
(घ) पादध्वनिः → पादस्योः ध्वनिः इति पादध्वनिः ।
(ङ) द्वा:स्थेन → द्वारि स्थितः यः सः तेन द्वा:स्थेन ।
(च) कठोरभाषणैः → कठोरम् भाषणम् इति तैः कठोरभाषणैः ।
(छ) गम्भीरस्वरेण → गम्भीरः स्वर इति तेन गम्भीरस्वरेण ।
5 सन्धिच्छेदः क्रियताम्-
(क) किञ्चिदन्धकारे (ख) शान्तो भव
(ग) अद्यापि (घ) इत्येवम्
(ड) कोऽत्र (च) तदधुनैव
(छ) क्षान्तोऽयमपराधः (ज) बहूक्तम्
उत्तर:
(क) किञ्चिन्थकारे → किञ्चित् + अन्धकारे
(ख) शान्तो भव → शान्त: + पव
(ग) अद्यापि → अद्य + अपि
(घ) इत्येवम् → इति + एवम्
(ङ) कोऽत्र → क: + अत्र
(च) तङ्घनैव → तत् + अधुना + एव
(छ) क्षान्तोऽयमपराध: → क्षान्त: + अयम् + अपराधः
(ज) बहूक्तम् → बहु + उक्तम्
6– अधोनिर्दिष्टेषु पदेषु प्रकृति प्रत्यय – विभागं कुरुत –
(क) निधाय (ख) प्रत्यागतम्
(ग) विदधानः (ष) निरीक्षमाणः
(ङ) भाषमाणेन (च) अभिज्ञाय
(छ) पश्यन् (ज) अनुत्तरयन्
उत्तर:
(क) निधाय → नि + धा + ल्यप्
(ख) प्रत्यागतम् → प्रति + आ + गम् + क्तम्
(ग) विदधानः → वि + धा + शानच्
(घ) निरीक्षमाणः → निः + ईक्ष् + शानच्
(ङ) भासमाणेन → भास + शानच्
(च) अभिज्ञाय → अभि + ज्ञा + ल्यप्
(छ) पश्यन् → दृश् + शतृ
(ज) अनुत्तरयन् → अनु + तृ + शतृ
7- विशेषणं विशेष्येन सह योजयत
गम्भीरेण जनः
मुमूर्षुः गूढचरः
कठोरैः पारदभस्म
परिष्कृतम् स्वरेण
कपटी भाषणैः
उत्कोचलोभी अभ्यागताः
देशद्रोहिणः सन्यासिन्
आदूताः नीचः
उत्तर:
गम्भीरेण → स्वरेण
मुमूर्षुः → जन:
कठोरैः → भाषणैः
परिष्कृतम् → पारदभस्म
कपटी → संन्यासिन्
उत्कोचलोभी → नीच:
देशद्रोहिणः → गूढचर:
आहूताः → अभ्यागताः
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में
