Up board hindi class 10 full solution chapter -varanasi वाराणसीः प्रश्न उत्तर

Up board hindi class 10 full solution chapter – varanasi upboard hindi class 10 sanskrit khand chapter -1 वाराणसीः प्रश्न उत्तर

प्रश्न 1

वाराणसी नगरी कुत्र स्थिता अस्ति ? 

उत्तर

वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति ।

प्रश्न 2

वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणस्ययाः प्रशंसन्ति।

उत्तर

वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणस्याः प्रशंसन्ति।

प्रश्न 3

वैदेशिकाः किमर्थम् वाराणसीम् आगच्छन्ति ?

उत्तर

वैदेशिका: संस्कृतस्य अध्ययनाय वाराणसीम् आगच्छन्ति ।

upboardinfo.in

प्रश्न 4

वाराणस्यां कति विश्वविद्यालयाः सन्ति ?

वाराणस्यां कति विश्वविद्यालयाः सन्ति ?

उत्तर

वाराणस्यां हिन्दू विश्वविद्यालयः, संस्कृत विश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति।

प्रश्न 5

वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति? 

वाराणसी नगरी कस्य केन्द्रस्थली अस्ति ?

वाराणसी कस्य केन्द्रस्थलम् अस्ति ?

वाराणसी नगरी केषां संगमस्थली अस्ति?

उत्तर

वाराणसी भारतीयसंस्कृते: संस्कृतभाषायाश्च केन्द्रम् अस्ति।

प्रश्न 6

कः मुगलयुवराजः वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत् ?

उत्तर

मुगलयुवराज: दाराशिकोह: वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।

प्रश्न 7

दाराशिकोहः कुत्र गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत् ? 

उत्तर

दाराशिकोह: वाराणस्यां गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत्।

प्रश्न 8

दाराशिकोहः कस्यां भाषायाम् उपनिषदाम् अनुवादम् अकारयत् ? 

उत्तर

दाराशिकोह: पारसीभाषायाम् उपनिषदाम् अनुवादम् अकारयत्।।

प्रश्न 9

वाराणसी नगरी केषां सङ्गमस्थली अस्ति?

का नगरी विविधधर्माणां सङ्गमस्थली अस्ति ?

वाराणसी कस्य सङ्गमस्थली अस्ति ?

उत्तर

वाराणसी नगरी विविधधर्माणां  सङ्गमस्थली अस्ति।

upboardinfo.in

प्रश्न 10

वाराणसी किमर्थं प्रसिद्धा ? 

वाराणसी कथं प्रसिद्धा अस्ति ?

उत्तर

वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च कृते प्रसिद्धा अस्ति ।

प्रश्न 10

वाराणसी किमर्थं प्रसिद्धा ? 

वाराणसी कथं प्रसिद्धा अस्ति ?

उत्तर

वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च प्रसिद्धा अस्ति।

प्रश्न 11

कुत्र मरणं मङ्गलं भवति ? 

उत्तर

वाराणस्यां (काशी)मरणं मङ्गलं भवति।

प्रश्न 12

सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते ?

उत्तर

सम्पूर्णानन्द संस्कृत विश्वविद्यालयः वाराणस्यां नगर्यां विद्यते।

प्रश्न 13

दाराशिकोहः किमर्थम् अत्रागतः ?

उत्तर

मुगलयुवराजः दाराशिकोहः भारतीय दर्शनशास्त्राणाम् अध्ययनाय अत्र आगच्छत् ।

प्रश्न 14

दाराशिकोहः वाराणसी आगत्य किमकरोत् ?

उत्तर

दाराशिकोह: वाराणसीं आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।

upboardinfo.in

प्रश्न 15

वाराणस्याः कानि वस्तूनि प्रसिद्धाः सन्ति ?

उत्तर

वाराणस्याः कौशेयशाटिका: प्रस्तरमूर्तयः च प्रसिद्धाः सन्ति।

प्रश्न 16

वाराणसी नगरी कस्याः कूले स्थिता ? 

उत्तर

वाराणसी नगरी गङ्गायाः कूले स्थिता।

प्रश्न 17

वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति ?

उत्तर

विविधानां कलानां शिल्पानां च कृते वाराणसी नगरी लोके विश्रुता।

प्रश्न 18

कस्याः शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति ?

उत्तर

गङ्गायाः घट्टानांं शोभां विलोक्य पर्यटका: बहु प्रशंसन्ति।

प्रश्न 19

वाराणस्यां गेहे-गेहे किं द्योतते ?

उत्तर

वाराणस्यां गेहे-गेहे विद्यायाः दिव्यं ज्योति: द्योतते

httpp://mpboardinfo.in

Leave a Comment