up board class10 sanskrit solution chapter 11 gurunanak dev एकादशः पाठः गुरुनानकदेवः

up board class10 sanskrit solution chapter 11 gurunanak dev एकादशः पाठः गुरुनानकदेवः

एकादशः पाठः  गुरुनानकदेवः

(गुरुनानकदेव)

[गुरुनानकदेव का जन्म पंजाब प्रदेश में तलवंडी नामक स्थान पर वैसाख मास की शुक्ल पक्ष तृतीया को संवत् 1526 वि० में क्षत्रिय वंश के वेदी कुल में हआ। यह अपनी माता-पिता की अकेली संतान थे। बाल्यावस्था से ही यह ध्यान लगाकर एक स्थान पर बैठ जाते थे। ऐसा देखकर माता-पिता बड़े चिन्तित रहते थे। वैराग्य की भावना से छुटकारा दिलाने के लिए उन्होंने सुलक्षणा देवी नामक कन्या के साथ इन्हें विवाह-बन्धन में बाँध दिया। गृहस्थ रहते हुए भी ये ईश्वरीय ज्ञान को धारण करते रहते थे। सन्मार्ग के उपदेश के लिए घरबार छोड़ दिया और नगर-नगर, गाँव-गाँव भ्रमण करते रहे। इनके अनुयायियों की संख्या बराबर बढ़ती गयी। इस प्रकार ये एक नये सम्प्रदाय के संस्थापक बन गये जो बाद में सिक्ख धर्म कहलाया। आश्विन मास की कृष्ण पक्ष दशमी, विक्रम सं0 1596 को इन्होंने अपने नश्वर शरीर को त्याग दिया।]

_सिक्खधर्मस्याद्यसंस्थापक: गुरु नानक: पंजाबप्रदेशे तलवंडीनाम्नि स्थाने षड्विंशत्युत्तरपञ्चदशशततमे वैक्रमे वर्षे वैशाखमासस्य शुक्ल पक्षे तृतीयायान्तिथौ (वै०शु0-3, विo 1526) क्षत्रियवंशस्य वेदीकुले जन्म लेभे। तस्य जन्मस्थानं ‘ननकानासाहेब’ इति नाम्ना ख्यातमद्यत्वे पाकिस्तानदेशेऽस्ति। अस्य मातुर्नाम तृप्तादेवी, पितुश्च मेहता कल्याणदासः कालूमेहतेति नाम्ना ख्यातः।

गुरुनानकः स्वपित्रोरेक एव पुत्र आसीत्। अतस्तस्य जन्मनाऽऽह्लादातिशयं तानुभवन्तौ स्नेहातिशयेन तस्य लालनं पालनं च कृतवन्तौ। बाल्यकालादेव तस्मिन् बालके लोकोत्तरा: गुणाः प्रकटिता अभवन्। रहसि एकाकी एवोपविश्य नेत्रेऽअर्धोन्मीत्य किञ्चिद् ध्यातुमिव दृश्यते स्म। यथाकाले पित्रा विद्याध्ययनाय पाठशालायाम् स प्रेषितः। अन्यैः सहपाठिभिः सह विद्यालये पठन्नेकदा स्वलेखनपट्टिकायां किञ्चिदुल्लिख्य शिक्षकं प्रादर्शयत्। तल्लेखं दृष्ट्वा शिक्षको विस्मितो जातः। पट्टिकायां परमात्मनो माहात्म्यं तेन वर्णितमासीत्। तथैव यज्ञोपवीतसंस्कारावसरे आचार्येण प्रदत्तं कार्पासं यज्ञोपवीतमनित्यमिति प्रतिपादयन् न तज्जग्राह। तस्य पिता कालूमेहता जगत्प्रति तस्याप्रवृत्तिं दृष्ट्वा भूयसा चिन्तितोऽभवत्। वाणिज्यकर्मणि लिप्तस्तत्पिता कथमपि स जगत्कर्मणि प्रवृत्तो भवेदिति प्रायतत। किं च वह्नि पत्रजालैर्पिधातुमाचकाङ्क्षा एकदा तस्य जनकः विंशतिरूप्यकाणि तस्मै दत्वा वाणिज्यार्थं तं प्रेषितवान्। पथि क्षुत्पिपासादिभिः क्लिश्यमानान् दुर्बलान् क्षीणकायान् साधून सोऽपश्यत्। तेषां क्लेशातिशयतापसंतप्तां दशामवलोक्य तस्य हृदयं नवनीतमिव द्रवीभूतं जातम्। ताभिः मुद्राभिरत्नं क्रीत्वा तेभ्य: समर्प्य परां शान्तिमनुभूयमानः गृहं प्रत्याजगाम। पित्रा लाभाय रूप्यकाणि प्रदत्तानि। मया तु पूर्णलाभ: लब्धः। तस्यादेशस्यानुपालनमेव मया कृतामिति सोऽचिन्तयत्।

पिता तस्य तद्वृत्तं संश्रुत्य खिद्यमान: भृशं चुकोप। तदानीमेव नानकस्य भगिनीपति: जयराम आगत। तमखिलमुदन्तं ज्ञात्वा तं स्वनगरं सुलतानपुरमनयत्। तत्रत्यः शासक: नवाबदौलतखाँ युवकनानकस्य व्यवहारकौशलेन शीलेन मधुरया वाचा सन्तुष्टः सन् तं स्वान्नभाण्डागारे नियुक्तवान्। स्वनिष्पृहवृत्या श्रमेण कर्मणा च नानक: स्वस्वामिनं दौलतखाँमहाशयं तुतोष।

नानक: तेन समादृतो जात:। तद्यशोऽसहमानैः बहुभि: दोषदिदृक्षुभिः राजपुरुषैः कर्णेजपैः बोधितोऽपि दौलतखांमहाशय: नानके दोषं नाऽपश्यत्। महत्सु दोषदर्शनं राजकुलस्य सहजा रीतिः। आदिवसं स्वकार्य सम्पादयन्नसौ संध्याकालेऽन्यैः युवकैः सह एकत्रोपविश्य परमात्मचिन्तनं तन्नामकीर्तनञ्च करोति स्म। दानादिकं च तस्य कर्म तत्रापि सातत्येन चलति स्म। _ युवकस्य नानकस्य तथाविधां प्रवृत्तिमवेक्ष्य तस्य भगिनीपति: जयराम: चिन्तितः सन् विवाहबन्धनेन तस्य तां प्रवृत्तिं नियन्तुमियेष। ऊनविंशवर्षे वयसि गुरुदासपुरमण्डलान्तर्गत-बहालाग्रामनिवासिनः बाबामूलामहोदयस्य सुलक्षणया ‘सुलक्खिनी’ नाम्न्या कन्यया सह तस्योद्वाहो जातः।। एकदा सः स्नानाय नदी प्रति सेवकेनैकेन सह प्रस्थितः। स्ववस्त्रादीनि सेवकाय समर्प्य स: नद्यामवतीर्णः। बहुकाले व्यतीते स न निष्क्रान्तस्तदा तस्य सेवकः तं नद्याम् निमग्नमित्यनुमाय गृहं प्रतिनिवृत्य वृत्तमिदं सर्वानश्रावयत्। सर्वे विस्मिताः तद्विरहतापसंतप्ताः परं का गतिरिति चिन्तयन्तो सर्वथा स्तब्धाः जाताः। तस्य भगिनी ‘नानकी’ तु न विश्वसिति स्म। संसारसागराज्जनानुद्धर्तुं जगति यस्य जनिः कथं वा नदीजले निमग्नोभवेदिति तस्या दृढो विश्वास आसीत्। दिनत्रयान्तरं नानक: प्रकटितोऽभूत्। परमाह्लादिताः जनाः ज्योतिषा देदीप्यमानं तस्य मुखमण्डलं दर्श दर्शं विस्मिता अभूवन्। मनसो बुद्धेरगोचरं किञ्चिद् दिव्यत्वं तस्मिन् प्रतिष्ठितमिति सर्वेऽन्वभवन्। तस्य मुखादेव दिनत्रयानुपस्थितिरहस्यं जना अशृण्वन्।

नदीजले निमग्नं तं परमात्मनो दूताः परमात्मन: समीपमनयन्। जगत: विधाता तस्मैऽमृतोपदेशं प्रादात् दु:खदैन्यतप्तानां क्लेशान् अपहर्तुं सदुपदेशेन परमात्मतत्त्वं सत्स्वरूपं च व्याख्यातुं जगति पुन: तस्यादेशात् आगतः इति तेनोक्तम्। भक्त: नानक: गुरुः जातः। लोकरक्षायै दीनानामुद्धाराय मानवजातिषु जातान् वर्णजातिधर्मरूपान् भेदान्अपनेतुं सर्वेषु साम्यं प्रतिष्ठापयितुं त्रिविधतापसंतप्तं लोकममृतोपदेशेन शीतलयितुं गुरु नक: भारतभ्रमणाय मति चकार। स्वमातापितरौ स्वपत्नी स्वसुतौ स्वभगिनीं नानकी स्वमित्राणि च साधु समाश्वास्य स सुलतानपुरनगरान्निर्जगाम। नगरान्ननगरं ग्रामाद्याममटन् धर्मस्य बाह्यचारानाडम्बरभूतान् व्यापारान् विखण्डयन् धर्मस्य सत्स्वरूपं स्थापयन् सर्वस्मिन् तदेकमिति प्रतिपादितवान्। “नेह नानास्ति किञ्चन” इति जनान् सम्यक् बोधयन् जातिवर्णधर्मजनितोच्चावचभेदानपनयन् देशस्योत्तरदक्षिण-पूर्व-पश्चिमभागानां भ्रमणमसौ कृतवान्। सर्वत्र दलितानां पतितानां अपहृताधिकारणां दैन्यग्रस्तानां दु:खतप्तहृदयानां जनानामन्तिकं गत्वा स्वप्रेम्णा मधुरया वाचा अमृतोपदेशेन च तान् सान्त्वयामास। भ्रमणकाले दु:खदैन्यग्रस्तानामुपेक्षितानामेवातिथ्यं तेनाङ्गीकृतम्। परपरिश्रमेणार्जितधनेन जनाः धनिनो जायन्ते अत: ऐश्वर्यवतो निमन्त्रणमपि तस्मै न रोचते स्म। स्वश्रमेणोपार्जित वित्ते विद्यमाना पवित्रता परपरिश्रमार्जितवित्ते कुत्र इत श्रमं प्रति प्रशस्यभावः तेनोदाहृतः।

विंशतिवर्षं यावद् तेन समग्रदेशस्य भ्रमणं कृतम्। भ्रमता तेन देशस्य चिन्तनीया दशा दृष्टा। देशचिन्ताचिन्तितः स देशस्योन्नत्यै श्रमस्य प्रतिष्ठां दैन्यपरित्यागमपरिग्रहं सेवाभावादिभावान् प्रसारयामास।

समग्रदेशमेकसूत्रे आबद्धं प्रयतमानः स प्रथमो भारतीयो महापुरुषः आसीत्। यवनशासकैः कृतानत्याचारान् वीक्ष्य भृशं खिद्यमान: परमात्मानमुपालम्भितवान्। तेनैव महात्मना भारतं ‘हिन्दुस्तान’ इति नाम्ना संबोधितवान्।

अथ स स्वविचारान् यथातथ्ये परिणेतुं पंजाबप्रदेशे कर्तारपुरे स्ववसतिं चकार। स्वानुयायिभिः सह कृषिक्षेत्रे कृषिकर्म कुर्वन् वृद्धपितेव तेषु स्थित: परमात्मतत्वं चिन्तयन् विदेह इव सुस्थिरं स्थितः। गुरुणा नानकेन ज्ञानयोगस्य कर्मयोगस्य चाद्भुतं सामञ्जस्यं स्थापितम्। निष्काम-कर्मणा सेवावृत्या करुणया सच्छीलेन च गुणैः सच्चारित्र्यस्य सृष्टिर्जायते। सच्चारित्र्यमेव परमात्मनो प्राप्तिहेतुरिति तेन प्रतिपादितम्। तत्रैवासौ ‘लंगर’ इति नाम्नी सहभोजप्रथां प्रारब्धवान्। तत्र स्वेन निर्मितं भोजनमाबालवृद्धम् नरा: नार्य: जातिधर्मवर्णनिर्विशेषाः सर्वेषु सहैवोपविश्य भुञ्जते स्म। एषा प्रथाऽधुनापि गुरुद्वारेषु प्रचलिता दृश्यते। षण्णवत्युत्तरपञ्चदशशततमे वैक्रमे वर्षे आश्विनमासस्य कृष्णपक्षे दशम्यान्तिथौ (आ050-10, वि0 1596) गुरोरात्मतत्त्वं परमात्मतत्त्वे विलीनम्।

गुरुः सप्ततिवर्षं यावद् धरामलङ्कुर्वाणः सेवाभावस्य, परस्परं प्रेम्णः राष्ट्रभक्तेः देशानुरागस्य देशस्याखण्डतायाः परमात्मनः करुणायाश्च गीतं जिगाय। गुरु नकोऽस्माकमितिहासपृष्ठेषु स्वर्णाक्षरैरङ्कितः सदा स्थास्यति।

काठिन्य निवारण । शब्दार्थ

संस्थापकः = स्थापना करनेवाले। वेदीकुले = वेदी कुल में। लेभे = प्राप्त किया। ख्यात = प्रसिद्ध। रहसि = एकान्त में। प्रतिपादयम् = सिद्ध करते हुए। भूयसा = अनेक बार। पत्रजालैः = पत्तों के समूह से। क्षीणकायान् = दुर्बल शरीरवाले को। तद्वृत्तं = वह आचरण। खिद्यमानः = खेद करते हुए। चुकोप = कुपित हुआ। भगिनीपतिः = बहनोई। उदत्तं = समाचार। निःस्पृहवृत्या = इच्छारहित व्यवहार से। कर्णेजपैः = चुगलखोर। सातत्येन = लगातार। उद्वाह = विवाह। परावर्तितः = लौटा। स्तब्धा = सन्न रह गये। जनिः = जन्म। अगोचर = अनुभव न होनेवाला। अशृण्वन् = सुनते थे। अपहर्तुम् = दूर करने के लिए। अन्तिकं = पास में। अङ्गीकृतम् = स्वीकार किया। अर्जित वित्ते = कमाये हुए धन में। भृशं = बहुत। वीक्ष्य = देखकर। यथातथ्ये = वास्तविक रूप में। भुञ्जते स्म = खाते थे। सहैव = साथ-साथ।

1__’गुरुनानकदेव:’ पाठ का सारांश हिन्दी में लिखिए।

2-निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए

(क) सिक्खधर्मस्याद्य ………………… नाम्ना ख्यातः।

(ख) पिता तस्य…………….. तुतोष।

(ग) गुरुनानक:………….दृश्यते स्म।

(घ) विंशतिवर्ष ………… …………… संबोधितवान्।

(ङ) अथ स …………… ………….. भुञ्जते स्म। (

च) अथ स………….स्थापितम्।

(छ) एकदा स: (गुरुनानकदेव)……………. प्रकटितोऽभूत्।

3. निम्नलिखित प्रश्नों के उत्तर हिन्दी में लिखिए

(क) गुरुनानकदेव के जन्म-स्थान का नाम लिखिए।

(ख) गुरुनानकदेव का परिचय दीजिए।

(ग) गुरुनानकदेव के मुख्य उपदेश क्या हैं?

(घ) गुरुनानकदेव के माता-पिता का नाम लिखिए।

(ङ) गुरुनानक का विवाह किसके साथ हुआ था?

(च) गुरुनानकदेव का जन्म कब और कहाँ हुआ था?

(छ) गुरुनानकदेव की शिक्षा का सारांश लिखिए।

(ज) नानकदेव की बहन का क्या नाम था?

(झ) गुरुनानक ने किन बातों में समन्वय स्थापित किया?

(ञ) नानक ने बाल्यकाल में कौन-सा सौदा किया?

(ट) गुरुनानकदेव के नदी में डूबने की घटना का वर्णन कीजिए।

(ठ) ‘लंगर’ किसे कहते हैं? इसकी स्थापना किसने की?

(ड) ‘गुरुनानकदेव’ पाठ का सारांश लिखिए।

(ढ) सिख धर्म के आदि संस्थापक का नाम लिखिए।

4. _ निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए

(क) सिखधर्मस्य संस्थापकः कः आसीत्?

(ख) नानकस्य भगिनीपति: क : आसीत्?

(ग) गुरुनानकस्य जन्म कस्मिन् प्रदेशे अभवत्?

(घ) गुरुनानकस्य जन्म कदा अभवत्?

5. निम्नलिखित शब्दों को स्वरचित संस्कृत-वाक्यों में प्रयोग कीजिए

आसीत्, पिता, तेन, वृद्धः, करुणा।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment