up board class10 sanskrit solution chapter 10 lokmany tilak दशमः पाठः लोकमान्यः तिलकः

up board class10 sanskrit solution chapter 10 lokmany tilak दशमः पाठः लोकमान्यः तिलकः

दशमः पाठः लोकमान्यः तिलकः

(लोकमान्य तिलक)

[ ”स्वतन्त्रता हमारा जन्मसिद्ध अधिकार है और हम उसे लेकर रहेंगे’-इस नारे का सर्वप्रथम उद्घोष करनेवाले बालगंगाधर तिलक का नाम देश की स्वतन्त्रता के लिए संघर्ष करनेवाले भारत के महापुरुषों में अग्रगण्य है। इनका जन्म संवत् 1913 वि0 और देहावसान संवत् 1977 वि० में हुआ। देश की स्वतंत्रता के लिए ये कई बार जेल गये। जेल में इन्होंने श्रीमद्भागवत गीता की व्याख्या की जो ‘गीता-रहस्य’ के नाम से सुविख्यात है। इनके द्वारा आरम्भ किया गया गणेश उत्सव महाराष्ट्र में अब भी धूमधाम से मनाया जाता है।]

लोकमान्यो बालगङ्गाधरतिलको नाम मनीषी भारतीयस्वातन्त्र्ययुद्धस्य प्रमुखसेनानीष्वन्यतम आसीत्। ‘बाल:’ इति वास्तविकं तस्याभिधानम्। पितुरभिधानं ‘गङ्गाधरः’ इति वंशश्च ‘तिलकः’ एवञ्च ‘बालगङ्गाधर तिलकः’ इति सम्पूर्णमभिधानम्, किन्तु ‘लोकमान्य’ विरुदेनासौ विशेषेण प्रसिद्धः। यद्यप्यस्य जन्मनाम ‘केशव राव’ आसीत् तथापि लोकस्तं ‘बलवन्त राव’ इत्यभिधया एव ज्ञातवान्।

एष महापुरुषस्त्रयोदशाधिकनवदशशततमे विक्रमाब्दे (1913) अषाढमासे कृष्णपक्षे षष्ठ्यां तिथौ सोमवासरे महाराष्ट्रप्रदेशे रत्नगिरिमण्डलान्तर्गत ‘चिरवल’ संज्ञके ग्रामे जन्म लेभे। चितपावन: दाक्षिणात्यब्राह्मणकुलोत्पन्नस्य पितुर्नाम श्री रामचन्द्रगङ्गाधर राव’ इत्यासीत्। सः कुशलोऽध्यापकः आसीत्। गङ्गाधरः स्वपुत्रं तिलकं बाल्ये एव गणितं मराठीभाषां संस्कृतञ्चापाठयत्। अस्य जननी ‘श्रीमती पार्वतीबाई’ परमसुशीला, पतिव्रतधर्मपरायणा, ईश्वरभक्ता, सूर्योपासनायाञ्च रता बभूव। येनायं बालस्तेजस्वी बभूव इति जनाश्चावदन्। अस्य कार्यक्षेत्रं महाराष्ट्रप्रदेश: विशेषेणासीत्। स महाराष्ट्र उग्रराष्ट्रियतायाः जन्मदाता वर्तते स्म। तिलको महाराष्ट्र-नवयुवकेषु देशभक्ति-आत्मबलिदान-आत्मत्यागस्य भावनां जनयितुं देशहितायानेकानि कार्याणि सम्पादितवान्। तस्य स्वभावः धीर: गम्भीर: निर्भयश्चासीत्। तस्य जीवने वीरमराठानां प्रभाव: पूर्णरूपेणाभवत्।

अस्य बाल्यकालोऽतिकष्टेन व्यतीतः। यदा स दशवर्षदेशीयोऽभूत् तदा तस्य जननी परलोकं गता। षोडशवर्षदेशीयो यदा दशम्यां कक्षायामधीते स्मतदा पितृहीनो जातोऽयं शिशुः। एवं नानाबाधाबाधितोऽपि सोऽध्ययनं नात्यजत्। विपद्वायुः कदापि तस्य धैर्य चालयितुं न शशाक। अस्मिन्नेव वर्षे तेन प्रवेशिका परीक्षा समुत्तीर्णा। इत्थमस्य जीवनं प्रारम्भादेव संघर्षमयमभूत्।

बाल्यकालादेवायं पठने कुशाग्रबुद्धिः स्वकक्षायाञ्च सर्वतोऽग्रणीरासीत्। संस्कृतगणिते तस्य प्रियविषयौ आस्ताम्। छात्रावस्थायां यदाध्यापकः, गणितस्य प्रश्नं पट्टिकायां लेखितुमादिशति तदा स कथयति स्म। किं पट्टिकायां लेखनेन, मुखेनैवोत्तरं वदिष्यामि। स गणितस्य कठिनप्रश्नानां मौखिकमेवोत्तरमवदत्। परीक्षायां पूर्वं क्लिष्टप्रश्नानां समाधानमकरोत्। दशमे वर्षेऽयं शिशुः संस्कृतभाषायां नूतनश्लोकनिर्माणशक्तिं प्रादर्शयत्।

महाविद्यालये प्रवेशसमये स नितरां कृशगात्र: आसीत्। दुर्बलशरीरेण स्वबलं वर्धयितुं नदीतरणनौकाचालनादिविविधक्रियाकलापेन स्वगात्रं सुदृढं सम्पादितवान्। सहजैव चास्यमहाप्रणताऽविर्बभूव। तत आजीवनं नीरोगताया: निरन्तरमानन्दमभजत्।

विंशतितमे वर्षे बी0 ए0 ततश्च वर्षत्रयानन्तरम् एल-एल0 बी0 इत्युभे परीक्षे सबहुमानं समुत्तीर्य देशसेवानुरागवशाद् राजकीयां सेवानिवृत्तिं अधिवक्तुः (वकालत) वृत्तिञ्च विहाय लोकसेवाकार्ये संलग्नोऽभवत्। भारतभूमेः पीडितानां भारतीयानाञ्च कृतेऽयं स्वजीवनमेव समर्पयत्। पीडितानां करुणारवं श्रुत्वा स नग्नपादाभ्यामेवाधावत्। एतादृशा एव महोदया

ऐश्वर्यशालिनो भवन्ति। पठनादारभ्याजीवनं स स्वधियं सर्वसत्त्वोद्धृतौ निदधे। प्रिययाप्रियया वा कयापि घटनया स स्वमार्गच्युतो न बभूव। ‘सम्पत्तौ च विपत्तौ च महतामेकरूपता’ इति तस्य आदर्श:।

सोऽस्मान् स्वतन्त्रताया: पाठमपाठयत् ‘स्वराज्यमस्माकं जन्मसिद्धोऽधिकारः’ इति घोषणामकरोत्। स्वराज्यप्राप्त्यर्थं घोरमसौ क्लेशमसहत। लोकमान्यो राजनीतिकजागर्तेरुत्पादनार्थं देशभक्तैः सह मिलित्वा मराठीभाषायां ‘केसरी’ आङ्ग्लभाषायाञ्च ‘मराठा’ साप्ताहिकं पत्रद्वयं प्रकाशयामास। तेन स्वप्रकाशितपत्रद्वयद्वारा आङ्गलशासनस्य सत्यालोचनं राष्ट्रियशिक्षणं वैदेशिकवस्तूनां बहिष्कार: स्वदेशीयवस्तूनामुपयोगश्च प्रचालिताः। स स्वराज्यमस्माकं जन्मसिद्धोऽधिकार इति सिद्धान्तञ्च प्रचारयामास। एतयो: साप्ताहिकपत्रयोः सम्पादने सञ्चालने चायं यानि दु:खानि सहते स्म तेषां वर्णनं सुदुष्करम्। शासनस्य तीव्रालोचनेन पुन: पुनरवं शासकैर्दण्डयते स्म। कदापि कथमपि लोभेन भयेन मदेन मात्सर्येण वा सत्पक्षस्यानुसरणं नात्यजत्। एवं शासकैः कृतानि स बहूनि कष्टानि असहत।

‘केसरी’ पत्रस्य तीक्ष्णैर्लेखैः कपिता: शासका: तिलकमष्टादशमासिकेन सश्रमकारावासस्य दण्डेनादण्डयन्। अस्य दण्डस्य विरोधाय भारतवर्षे अनेकेषु स्थानेषु सभा संजाता। देशस्य सम्मान्यैः पुरुषैः लोकमान्यस्य मुक्तये बहूनि प्रार्थनापत्राणि प्रेषितानि। अयं सर्वप्रयास: विफलो जातः। शासकः पुनश्च (1908) ख्रिष्टाब्दे तिलकमहोदयं राजद्रोहस्यापराधे दण्डितं कृतवान्। षड्वर्षेभ्य: दण्डितः स द्वीपनिर्वासनदण्डं बर्मादेशस्य मण्डले कारागारे कठोरकष्टानि सोढ्वा न्याय्यात् पथो न विचचाल।

अत्रैव निर्वासनकाले तेन विश्वप्रसिद्धं गीतारहस्यं नाम गीतायाः कर्मयोग-प्रतिपादकं नवीनं भाष्यं रचितम्। कर्मसु कौशलमेव कर्मयोगः, गीता तमेव कर्मयोगं प्रतिपादयति। अत: सर्वे जनाः कर्मयोगिनः स्युः इति तेन उपदिष्टम्। कारागारात् विमुक्तोऽयं देशवासिभिरभिनन्दितः। तदनन्तरं स ‘होमरूल’ सत्याग्रहे सम्मिलितवान्। इत्थं पुन: स देशसेवायां संलग्नोऽभूत्। ‘गीता रहस्यम्’ वेदकालनिर्णयः, आर्याणां मूलवासस्थानमित्येतानि पुस्तकानि तस्याध्ययनस्य गाम्भीर्यं प्रतिपादयन्ति।

देशोद्धारकारणामग्रणी: स्वराष्ट्रायानेकान् क्लेशान् सहमान: लोकमान्य: सप्तसप्तत्यधिकनवदशशततमे विक्रमाब्दे (1977) चतुष्षष्टिवर्षावस्थायामगस्तमासस्य प्रथमदिनाङ्के नश्वरं शरीरं परित्यज्य दिवमगच्छत्। एवं कर्त्तव्यनिष्ठो निर्भय: तपस्विकल्पो महापुरुषो लोकमान्य तिलको भारतदेशस्योद्धरणाय यदकरोत् तत्तु वृत्तं स्वर्णाक्षरलिखितं भारतस्वातन्त्र्येतिहासे सदैव प्रकाशयिष्यते। केनापि कविना सूक्तम

दानाय लक्ष्मीः सुकृताय विद्या, चिन्ता परेषां सुखवर्धनाय। परावबोधाय वचांसि यस्य, वन्द्यस्त्रिलोकी तिलकः स एव।।

काठिन्य निवारण मनीषी = विद्वान्। अन्यतमः = बहुतों में एक। अभिधानम् = नाम। विरुद = उपाधि। संज्ञकः = नाम के। कुशलः = चतुर। अधीते स्म = पढ़ता था। चितपावन = परम पवित्र। विपद्वायुः = विपत्ति की वायु। पट्टिकायां = स्लेट पर। नूतनम् = नया। स्वधिया = अपनी बुद्धि से। सर्वसत्वोद्धृतौ = सभी प्राणियों के उद्धार में। निदधे = लगा दिया। च्युतः = भ्रष्ट, पतित। सुदुष्करम् = करने में कठिन। मदेन = घमण्ड से। मात्सर्येण = द्वेष से। द्वीपनिर्वासनदण्डम् = द्वीप से निकालने का दण्ड। सोवा = सहकर। विमुक्तः = छूटा हुआ। दिवम् = स्वर्ग को। वृत्तम् = चरित्र। परावबोधाय = दूसरों के ज्ञान के लिए। वन्द्यः = वन्दना करने योग्य।

निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए

(क) लोकमान्यो …………..एव ज्ञातवान्।

(ख) तिलको .. …………… पूर्णरूपेणाभवत्।

(ग) अस्य बाल्यकालो ……………. संघर्षमयमभूत्।

(घ) बाल्यकालादेवायं ……………. समाधानमकरोत्।

(ङ) बाल्यकालादेव ……………………. प्रादर्शयत्। अथवा

बाल्यकालादेव अयं ……………………. वदिष्यामि।

(च) बाल्यकालदेवायं ………………… उत्तरमवदत्।

(छ) महाविद्यालय प्रवेश समये …….. आनन्दमभजत।

(ज) सोऽस्मान्. …………..प्रचालिताः।

अथवा

सोऽस्मान् …………..प्रचारयामास।

(अ) अत्रैव निर्वासनकाले ……………. संलग्नोऽभूत्।

(ट) देशोद्धार……………..प्रकाशयिष्यते।

3. निम्नलिखित प्रश्नों के उत्तर हिन्दी में लिखिए

(क) ‘लोकमान्य तिलक’ पाठ का सारांश लिखिए।

(ख) देश के हित में किये गये लोकमान्य तिलक के कार्यों का परिचय दीजिए।

(ग) तिलक का स्वभाव कैसा था?

(घ) ‘गीता रहस्य’ किसकी रचना है?

(ङ) ‘स्वराज्यमस्माकं जन्मसिद्धोऽधिकार:’ का आशय स्पष्ट कीजिए।

(च) तिलक का पूर्ण नाम एवं उनकी घोषणा लिखिए।

(छ) लोकमान्य तिलक के गीताभाष्य का क्या नाम है?

(ज) तिलक के पिता का क्या नाम है?

(झ) तिलकजी के जीवन पर किसका प्रभाव था?

(ञ) “स्वराज्य हमारा जन्मसिद्ध अधिकार है।’ इस युक्ति की घोषणा किसने की?

(ट) ‘लोकमान्य तिलक:’ पाठ के आधार पर ‘तिलक’ का चरित्र-चित्रण लिखिए।

निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए

(क) तिलकस्य जन्म कुत्र अभवत्?

(ख) तिलकस्य उद्घोष: किम् आसीत्?

(ग) तिलकस्य जन्म कदा अभवत्? (घ) गीता रहस्यं कस्य प्रसिद्ध कृति:?

(ङ) तिलक: नश्वरं शरीरं कदा परित्यक्त:?

5. निम्न पदों में नियमनिर्देशपूर्वक सन्धि कीजिए

यदि + अपि, तथा + अपि, इति + उभे, च + अयम्।

6. निम्नलिखित शब्दों का प्रयोग संस्कृत वाक्यों में कीजिए

तस्य, निर्भयः, सूर्यः, पुन:, जीवने।

Leave a Comment