MP BOARD CLASS 10 SANSKRIT CHAPTER 9 MADPARINAM नवमः पाठः मदपरिणामः

MP BOARD CLASS 10 SANSKRIT CHAPTER 9 MADPARINAM नवमः पाठः मदपरिणामः

नवमः पाठः मदपरिणामः


संस्कृतसाहित्ये कथासाहित्यस्य सुदीर्घपरम्परा वर्तते । कथा: प्राय: उपदेशात्मिका: भवन्ति। एतासु सरलरीत्या जीवनस्य उपयोगिनः विचारा: व्यक्ताः भवन्ति। श्रीविष्णुशर्मणा विरचितं पञ्चतन्त्रं संस्कृतसाहित्यस्य सर्वश्रेष्ठ कथापुस्तकम् अस्ति। अस्मिन् पुस्तके मित्रभेदः, मित्रप्राप्तिः, काकोलूकीयम्, लब्धप्राणाशा, अपरीक्षितकारकश्चेति पञ्चतन्त्राणि सन्ति ।
‘मदपरिणामः’ इतीयं कथा लब्धप्राणाशातन्त्रात् सङ्कलिता वर्तते। अस्मिन् पाठे अहङ्कारवशात् सदुपदेशतिरस्कारस्य दुष्परिणाम: कथारूपेण वर्णितोऽस्ति। MP BOARD CLASS 10 SANSKRIT CHAPTER 3 MAHARSHI DAYANAND तृतीय:पाठः महर्षिः दयानन्दः

कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकार: प्रतिवसति स्म । स चातीव दारिद्र्योपहतश्चिन्तितवान् – ‘अहो ! धिगियं दरिद्रताऽस्मद्गृहे । यत: सर्वोऽपि जन: स्वकर्मण्येव रतस्तिष्ठति । अस्मदीय: पुनर्व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्वलोकानां चिरन्तनाश्चतुर्भूमिकागृहा: सन्ति । मम च नात्र । तत्किं मदीयेन रथकारत्वेन प्रयोजनम् ।’

इति चिन्तयित्वा देशान्निष्क्रान्तः । यावत्किञ्चिद्वनं गच्छति तावद्गह्वराकारवनगहनमध्ये सूर्यास्तमनवेलायां स्वयूथाद् भ्रष्टां प्रसववेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च दासेरकयुक्तामुष्ट्रीं गृहीत्वा स्वस्थानाभिमुखः प्रस्थित: । गृहमासाद्य रज्जु गृहीत्वा तामुष्ट्रिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्या: पल्लवानयनार्थं पर्वतैकदेशं गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि छित्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर्भक्षितानि । पश्चात्पल्लवभक्षणप्रभावादहर्निशं पीवरतनुरुष्ट्री सञ्जाता । सोऽपि दासेरको महानुष्ट्रः सञ्जातः ।UPBOARDINFO.IN

तत: स नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वाद्दासेरकग्रीवायां महतीघण्टा प्रतिबद्धा। पश्चाद्रथकारो व्यचिन्तयत् – ‘अहो ! किमन्यैर्दुष्कृतकर्मभिः, यावन्ममैतस्मादेवोष्ट्रपरिपालनादस्य कुटुम्बस्य भव्यं सञ्जातम् । तत्किमन्येन व्यापारेण ।’ एवं विचिन्त्य गृहमागत्य प्रियामाह – ‘भद्रे ! समीचीनोऽयं व्यापारः । तव सम्मतिश्चेत्कुतोऽपि धनिकात्किञ्चिद् द्रव्यमादाय मया गुर्जरदेशे गन्तव्यं कलभग्रहणाय । तावत्त्वयैतौ यत्नेन रक्षणीयौ । यावदहमपरामुष्ट्री नीत्वा समागच्छामि।’

ततश्च गुर्जरदेशं गत्वोष्ट्रीं गृहीत्वा स्वगृहमागतः। किंबहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्रा: करभाश्च सम्मिलिताः । ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः । तस्य प्रतिवर्ष वृत्या करभमेकं प्रयच्छति । प्रतिवर्षं अन्यच्चाहर्निशं दुग्धपानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेवोष्ट्रीकरभव्यापारं कुर्वन्सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवनाहारार्थं गच्छन्ति । कोमलवल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायंतनसमये मन्द-मन्दं लीलया गृहमागच्छन्ति। स च पूर्वदासेरको मदातिरेकात्पृष्ठे आगत्य मिलति।

ततस्तैः कलभैरभिहितम् – ‘अहो मन्दमतिरयं दासेरको यथा यूथाद् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्नागच्छति । यदि कस्यापि दुष्टसत्त्वस्य मुखे पतिष्यति, तन्नूनं मृत्युमवाप्स्यति । अथ तस्य तद्वनं गाहमानस्य कश्चित्सिंहो घण्टारवमाकर्ण्य समायातः ।

यावदवलोकयति, तावदुष्ट्रीदासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन्वल्लरीश्चरन्यावत्तिष्ठति, तावदन्ये दासेरका: पानीयं पीत्वा स्वगृहं गताः।’

सोऽपि वनान्निष्क्रम्य यावद्दिशोऽवलोकयति, तावन्न कञ्चिन्मार्गं पश्यति वेत्ति च । यूथाद् भ्रष्टो मन्द-मन्दं बृहच्छब्दं कुर्वन्यावत्कियद्रं गच्छति, तावत्तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽग्रे व्यवस्थितः । ततो यावदुष्ट्रः समीपमागतः, तावत्सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश्च । अतोऽहं ब्रवीमि –

सतां वचनमादिष्टं मदेन न करोति यः। स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥

शब्दार्थ:

अधिष्ठाने – स्थान में नगर में । रथकार: – रथ बनाने वाला । दारिद्र्योपहतश्चिन्तितवान् – गरीबी से परेशान होकर निश्चित किया। चतुर्भूमिका: – चौमंजिला । मदीयेन – मेरे द्वारा । गह्वराकारवनगहनमध्ये – गुफा के आकार के घने जंगल के बीच । दासेरकः – ऊँट का बच्चा । आसाद्य – पहुँचकर । रज्जुम् – रस्सी को। परशुमादाय – कुल्हाड़ी लेकर । निचिक्षेप – फेंका/रखा । पीवरतनु: – स्थूलशरीर । वल्लभत्वात् – प्रेमवश/स्नेहवश । दुष्कृतकर्मभिः – निन्दितकर्मों के द्वारा । कलभग्रहणाय – उटों को लेने के लिए। किं बहुना – और अधिक क्या ? करभा: – बहुत से ऊँट । अभिहितम् – कहा । गाहमानस्य – विचरण करता हुआ। घण्टारवम् – घण्टे की आवाज को। आकर्ण्य – सुनकर । निभृतः – चुपचाप। छिपा हुआ। लम्भयित्वा – छलाँग लगाकर ।

पदच्छेद:

कस्मिंश्चिदधिष्ठाने – कस्मिंश्चित् + अधिष्ठाने।
दारिद्र्योपहतश्चितन्तितवान् …….- दारिद्र्य + उपहत: + चिन्तितवान्
धिगियम् ……..धिक् + इयम्
दरिद्रताऽस्मद्गृहे ……..दरिद्रता + अस्मद्गृहे
स्वकर्मणैव …..स्वकर्मणा + एव
नात्राधिष्ठानेऽर्हति ……न + अत्र + अधिष्ठाने + अर्हति
पीड्यमानामुष्ट्रीमपश्यत् ……पीड्यमानाम् + उष्ट्रीम् + अपश्यत्
पश्चात्पल्लवभक्षणप्रभावादहर्निशम् । पश्चात् + पल्लवभक्षणप्रभावात् + अहर्निशम्
वल्लभत्वाद्दासेरकग्रीवायाम् ……..वल्लभत्वात् + दासेरकग्रीवायाम्
किमन्यैर्दुष्कृतकर्मभिः …….किम् + अन्यैः + दुष्कृतकर्मभिः
यावन्ममैतस्मादेवोष्ट्रपरिपालनादस्य …………यावत् + मम + एतस्मात् + एव + उष्ट्रपरिपालनात् + अस्य
तत्किमन्येन ………..- तत् + किम् + अन्येन
तावत्त्वयैतौ ……..तावत् + त्वया + एतौ

MP BOARD CLASS 10 SANSKRIT CHAPTER 7 VISHW BHARTEEYAM सप्तमः पाठः विश्वभारतीयम्

यावदहमपरामुष्ट्रीम्———- यावत् + अहम् + अपराम् + उष्ट्रीम्
विनाशमवाप्नोति ——–गत्वा + उष्ट्रीम्
अन्यच्चाहर्निशम् ——–अन्यत् + च + अहर्निशम्
नित्यमेवोष्ट्रीकरभव्यापारम् ———–नित्यम् + एव + उष्ट्रीकरभव्यापारम्
अधिष्ठानोपवनाहारार्थम् ———अधिष्ठान + उपवन + आहार + अर्थम्
कोमलवल्लीर्यथेच्छया ——–कोमलवल्ली: + यथा + इच्छया
घण्टारवमाकर्ण्य ——घण्टारवम् + आकर्ण्य
कुर्वन्वल्लरीश्चरन्यावत्तिष्ठति ………कुर्वन् + वल्लरी: + चरन् + यावत् + तिष्ठति
विनाशमवाप्नोति ———विनाशम् + अवाप्नोति

एकपदेन उत्तरं लिखत –


(क) रथकारस्य नाम किम् आसीत् ?
(ख) रथकार: वने काम् अपश्यत् ?
(ग) महती घण्टा केन प्रतिबद्धा ?
(घ) कः महानुष्ट्रः सञ्जात: ?
(ङ) रक्षापुरुषस्य प्रतिवर्षं का वृत्तिः?

MP BOARD CLASS 10 SANSKRIT CHAPTER 7 VISHW BHARTEEYAM सप्तमः पाठः विश्वभारतीयम्

एकवाक्येन उत्तरं लिखत –

(क) उज्ज्वलक: कां गृहीत्वा स्वस्थानाभिमुखं प्रस्थित: ?
(ख) रथकार: पवर्तदेशे किमर्थं गत: ?
(ग) दासेरका: आहारार्थं कुत्र गच्छन्ति ?
(घ) दासेरका: कस्मिन् समये गृहमागच्छन्ति ?
(ङ) अस्याः कथायाः सारः कः ? ।

अधोलिखितप्रश्नानाम् उत्तराणि लिखत –

(क) उष्ट्री पीवरतनुः कथं सजाता?
(ख) रथकार: किमर्थं गुर्जरदेशं गतवान् ?
(ग) क: व्यापार: समीचीन: ?

यथायोग्यं योजयत –

‘अ’ ……………………………..……’आ’
(क) जन: स्वकर्मण्येव …………पीड्यमाना
(ख) प्रसववेदनया …………उष्ट्रिका बबन्ध
(ग) रज्जुं गृहीत्वा …………महतीघण्टा प्रतिबद्धा
(घ) दासेरकग्रीवायाम् …………मन्दमतिः
(ङ) यूथाद् भ्रष्ट्रः दासेरक: …………रतस्तिष्ठति

शुद्धवाक्यानां समक्षम्”आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत –

(क) पल्लवभक्षणप्रभावात् पीवरतनुरुष्ट्री सञ्जाता।
(ख) उज्ज्वलक: नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति।
(ग) उज्ज्वलकेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः।
(घ) यूथाद् भ्रष्टः दासेरक: घण्टां वादयन्नागच्छति।
(ङ) कश्चित्सिंहो घण्टारवमाकर्ण्य समायातः।

अधोलिखितक्रियापदानां धातुं लकारं पुरुष वचनञ्च लिखत –

क्रियापदम् ……………..धातुः ………….लकारः …………..पुरुषः
यथा – तिष्ठति । स्था (तिष्ठ) | लट्लकारः । प्रथमपुरुष: |
(क) अपश्यत् (ख) समागच्छामि (ग) मिलति (घ) पतिष्यति

अधोलिखितपदानां सन्धिविच्छेदं कृत्वा सन्धिनाम लिखत –

शब्दः सन्धिविच्छेदः सन्धिनाम वचनम् । एकवचनम्
यथा – चातीव ……… च + अतीव ……..दीर्घस्वरसन्धिः
(क) ततश्च (ख) सोऽपि (ग) यथेच्छया (घ) तन्नूनम्

समासविग्रहं कृत्वा समासनाम लिखत –

(क) प्रतिवर्षम्
(ख) दारिद्र्योपहतः
(ग) प्रसववेदनया
(घ) पीरवरतनुः
(ङ) रथकार:

रेखाहितपदान्याधृत्य प्रश्ननिर्माणं कुरुत –

(क) रथकारः प्रतिवसति स्म ।
(ख) मम गृहे उष्ट्रः अस्ति ।
(ग) स दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति ।
(घ) स: यूथाद् भ्रष्टोऽभवत् ।
(ङ) कलभैः अभिहितम् ।

कथाक्रम संयोजयत –

(क) उष्ट्रः यूथाद् भ्रष्टोऽभवत् ।
(ख) सिंहेन उष्ट्रः मारितः ।
(ग) रथकार: गुर्जरदेशं गत्वोष्ट्रीं गृहीत्वा स्वगृहमागतः ।
(घ) तेन प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः ।
(ङ) वने प्रसववेदनया पीड्यमानाम् उष्ट्रीम् अपश्यत् ।
(च) रथकार: दारिद्र्योपहत: देशान्निष्क्रान्तः ।

Leave a Comment