MP BOARD CLASS 10 SANSKRIT CHAPTER 7 VISHW BHARTEEYAM सप्तमः पाठः विश्वभारतीयम्

MP BOARD CLASS 10 SANSKRIT CHAPTER 7 VISHW BHARTEEYAM सप्तमः पाठः विश्वभारतीयम्

सप्तमः पाठः      विश्वभारतीयम्


संस्कृतभाषा न केवलं विश्वस्य प्राचीनतमा भाषा, अपितु वैज्ञानिकी भाषाअप्यस्ति।अस्याम् अस्माकं भारतीयानांपूर्वजानां सर्वमपिज्ञान-विज्ञानं निहितमस्ति। एषा भाषैव भारतीयभाषाणाम्, भारतीयसाहित्यस्य च उपजीव्यभाषाअस्ति।संस्कृतेन विना भारतीयभाषाणां, भारतीयसाहित्यस्य, वेद-पुराणोपनिषत्-कला धर्म-संस्कृति-दर्शनप्रभृतीनां ज्ञानं प्राप्तुं न शक्यते ।

पाणिनीयव्याकरणसंस्कृता इयं भाषा न केवलं भारतीयैरपितु पाश्चात्यै: विद्वद्भिः अपि प्रशंसिता, सम्मानिता पुरस्कृता च वर्तते। संस्कृतस्य सार्वकालिकं सार्वभौमिकंच महत्त्वंवीक्ष्यसमये-समयेप्रसिद्धःमहापुरुषै: राजनयिकै: संस्कृतविषये स्वकीयमन्तव्यं प्रकटितम् । पाठेऽस्मिन् केषाञ्चित् महापुरुषाणां संस्कृतकेन्द्रिता: विचारा: सङ्कलिता: वर्तन्ते।

आचार्यः – भो:छात्रा: ! ध्यानेन शृण्वन्तु । वयं संस्कृतं पठाम:, लिखामः, वदामः, किञ्चिन्महत्त्वमपि जानीम: । किन्तु
संस्कृतस्य विषये भारतीया:, वैदेशिका: विद्वान्स: किं कथयन्ति भवन्त: जानन्ति वा ?

सर्वे छात्रा:- आचार्य ! न जानीमः ।

आचार्यः – तर्हि अद्य संस्कृतविषये मूर्धन्यविदुषां, प्रसिद्धराजनेतृणां वैदेशिकानां विचाराणां चर्चा कुर्मः।

दिशा – आचार्य ! के-के भारतीयाः विद्वान्स: संस्कृतविषये उक्तवन्त: ?

आचार्यः – नैके विद्वान्सः, राजनेतारः, साहित्यकाराश्च संस्कृतस्य महत्त्वं प्रतिपादितवन्त: । भारतीयेषु महात्मागान्धि
पं.जवाहरलालनेहरु-महर्षिअरविन्दस्वामिविवेकानन्दप्रभृतयः, तथा च वैदेशिकेषु मैक्समूलरमैक्डानल-वेबर
विलियम-बॉप-हीरेन प्रभृतयः उल्लेखनीयाः।

मृदुल: – आचार्य ! महात्मागान्धि: संस्कृतविषये किमुक्तवान् ? आचार्यः – महात्मागान्धिः अवदत् – “यत् संस्कृतम् अस्माकं भारतीयभाषाभ्य: गङ्गा नदी अस्ति । अहं चिन्तयामि यदि संस्कृतगङ्गा शुष्का भवेत् तर्हि सर्वा: अपि भाषा: सारहीना: स्युः’।

प्रत्युषः – स्वामिविवेकानन्दः किमुक्तवान् ? http://mpboardinfo.in/

आचार्यः – विवेकानन्दः उक्तवान् यत् “संस्कृतम् अनिवार्यतया शिक्षणीयम्, यतोहि तस्योच्चारणध्वनिरेव राष्ट्रियभावम् आत्मगौरवम् उदात्तभावञ्च जनयति । किन्तु अस्माभिः सर्वैरपि भारतीयैः संस्कृतस्य प्रसारे प्रचारे च प्रयत्न: न क्रियते इति खेदस्य विषयः।”

यजुषः – भारतस्य प्रथमप्रधानमन्त्री पं. जवारहलालनेहरु : अपि संस्कृतभक्तः इति श्रूयते । असौ संस्कृतभाषाविषये किं
चिन्तयति ?

आचार्यः – संस्कृतसन्दर्भे एकदा पं. नेहरु: उक्तवान् यत्-“यदि कश्चित् मां पृच्छेत् यत् भारतस्य उदात्ततमकोष: क: ?
अथवा भारतस्य सर्वश्रेष्ठा सम्पत्ति: का ?
तर्हि अहं तु कथयिष्यामि संस्कृतभाषा अथवा संस्कृतवाङ्मयम् एव ।
अहं विश्वसिमि यावत् संस्कृतभाषा जीवति, जीवने प्रभवति तावत् भारतराष्ट्रस्य मूलभूता एकता स्थास्यत्येव।”

रजतः – अन्येषां साहित्यकाराणां विषयेऽपि ज्ञातुम् इच्छामि । http://mpboardinfo.in/

आचार्यः – आम् ! अहं सङ्केपेण वदामि – साहित्यकार: राजनेता डॉ. सम्पूर्णानन्दः अवोचत् यत् – “संस्कृतमेव अस्य
देशस्य राष्ट्रभाषा भवितव्या । संस्कृते अमूल्यरत्नानि सन्ति । संस्कृतं न केवलं जीवितानाम् अपितु दिवङ्गतानां कृतेऽपि सञ्जीवनी अस्ति” इति।

अपि च साहित्ये घुमक्कड़धर्मस्य प्रस्तावकः साहित्यकार: राहुलसांस्कृत्यायनोऽपि उक्तवान् यत् “अस्मत्प्राचीनतमा वाणी संस्कृतरूपेण अधुनाऽपि विद्यमाना। तत्त्वत: यथा हिन्दीकथासाहित्यादीनाम् अध्ययनं भवति तथा संस्कृतग्रन्थानाम् अपि अध्ययनमध्यापनञ्च सर्वत्र भवेत्।”

गिरिराज: – महर्षेः अरविन्दस्य संस्कृतविषये कोऽभिप्राय: ?

आचार्यः – महर्षिः प्राह – “सरलसंस्कृतमेव भारतराष्ट्रस्य राष्ट्रभाषा भवेत्।” अयमेव भाव: श्रीमातुः कथनेऽपि दृश्यते सा
“संस्कृतमेव राष्ट्रभाषाभवितुम् अर्हति’ इत्युक्तवती ।
अन्येऽपि प्रसिद्धाः नायका: संस्कृतस्य प्रशंसां कृतवन्त: महनीयतां च स्वीकृतवन्तः ।
यथा – भारतस्य प्रथम: राष्ट्रपति: डॉ. राजेन्द्रप्रसाद: कथितवान् यत् “संस्कृतसाहित्यं
न केवलं भारतस्य कृते अपितु मानवजातेः कृते अमूल्यधनम् अस्ति।

पङ्कजः – आचार्य ! अन्यधर्मावलम्बिन: अपि संस्कृतस्य प्रशंसकाः खलु ? http://Upboardinfo.in/

आचार्यः – आम्! प्रसिद्धः मुस्लिमविचारक: बदरुद्दीनतय्यबमहोदयः उक्तवान् यत् “मम मते प्रत्येकम् अपि हिन्दुः, मुस्लिम:,
भारतीयो वा संस्कृतज्ञो भवेदिति”। अन्यच्च प्रसिद्ध: न्यायवेत्ता मु. अली छागला उक्तवान् यत् “ममेच्छा यत् मातृभाषया सह संस्कृतशिक्षा अनिवार्या भवेत् ।”
संस्कृतभाषा प्राचीनार्वाचीनयोर्मध्ये सेतुरस्तीति।

सलीमः – आचार्य ! संस्कृतविषये भारतीयानां मन्तव्यम् अवगतम् । अधुना वैदेशिकानां विषयेऽपि ज्ञातुम् इच्छामि।

आचार्यः – साधूक्तं त्वया । इदानीमहं वैदेशिकविदुषां संस्कृतविषयकं मन्तव्यं बोधयामि । “विलड्यूरन्ट’ विख्यात: पाश्चात्यसमीक्षकः उक्तवान् यत् भारतम् अस्माकं जाते: जन्मभूमिः, तथा संस्कृतं यूरोपीयभाषाणां जननी अस्ति। संस्कृतमेव अस्माकं दर्शनस्य जननी, अरबदेशात् प्राप्तस्य गणितस्य जननी, ईसाईधर्मे बौद्धधर्मे च समाहितानां आदर्शानांजननी, ग्रामीणसमुदायेन स्वायत्तशासनस्य तथा गणतन्त्रस्य जननी, एवं प्रकारेण भारतमाता नानाविधरूपेषु अस्माकं सर्वेषां जननी अस्ति। जॉन: – वैदेशिकेषु मैक्समूलरमहोदय: विख्यातः । तेन किमुक्तम् ? MP BOARD CLASS 10 SANSKRIT CHAPTER 3 MAHARSHI DAYANAND तृतीय:पाठः महर्षिः दयानन्दः

आचार्यः – मैक्समूलर: उक्तवान् यत्- “संस्कृतं विश्वस्य महत्तमा भाषा अस्ति’। एवमपि प्राध्यापक: बॉप उक्तवान् यत् –
“संस्कृतमेव सम्पूर्णविश्वस्य एका भाषा आसीत् कदाचित् इति’।

करतारसिंह:- इतरेषामपि वैदेशिकविचारकाणाम् अभिप्राय: अपि ज्ञातव्यः खलु ?

आचार्यः – सत्यमेव ! जानन्तु । विद्वान् मैक्डानल उक्तवान् यत् – “वयं योरोपीया: अद्यावधि स्ववर्णमालाम् अपि पूर्णीकर्तुं न समर्थाः परं भारतीयानां भाषा तथा भाषाविज्ञानं न केवलं पूर्णम् अपितु वैज्ञानिकम् अस्ति’ । अन्यच्च विलियमजोन्समहोदयः उक्तवान् यत् – “संस्कृतस्य रचना आश्चर्यकारिणी अस्ति । इयं ग्रीकभाषाया: अपेक्षया

अधिकपूर्णा, लैटिनभाषायाः अपेक्षया अधिका समृद्धा तथा च उभयो: तुलनायाम् अति परिष्कृता वर्तते।” मनीषः – केनापि अन्येन पाश्चात्यविदुषाम् अपि संस्कृतविषये किमपि उक्तम् ?

MP BOARD CLASS 10 SANSKRIT CHAPTER 3 MAHARSHI DAYANAND तृतीय:पाठः महर्षिः दयानन्दः

आचार्यः – आम्! वेबर महोदयेन कथितं यत् – “सम्प्रति सम्पूर्ण विश्वे पाणिनिरेव वैयाकरणेषु पूर्ण: सर्वमान्यश्चास्ति। दर्शने http://mpboardinfo.in/
व्याकरणे च प्रामाणिकतायाम् उर्वरतायाञ्च भारतीया: उच्चतमस्थले प्रतिष्ठिताः।” तथा च एच.एच. विल्सन् महोदयेन कथितम् यत् –

न जाने विद्यते किं तन्माधुर्यमत्र संस्कृते ।
सर्वदैव समुन्मत्ता येन वैदेशिका वयम् ॥

सर्वे छात्रा:- आचार्य ! वयम् आनन्दिताः, संस्कृतं प्रति विश्वप्रसिद्धानां विदुषाम् अभिमतं श्रुत्वा, संस्कृतस्य वैश्विकं महत्त्वं च
ज्ञात्वा । उच्यते हि –

भारतीयैकता साधकं संस्कृतम्।
विश्वबन्धुत्वसम्पोषकं संस्कृतम् ॥
(सर्वे मिलित्वा श्लोकस्य सस्वरगायनं कुर्वन्ति)

शब्दार्थ:

विश्व+भारती+इयम्=विश्वभारतीयम्-यह विश्व की वाणी है। भारती – वाणी। इयम् – यह। विदुषाम् – विद्वानों के । वैदेशिकानाम् – विदेशियों के। नैके – अनेक । प्रभृतयः – इत्यादि । सारहीना: – साररहित । शुष्का – सूखी। विश्वसिमि – विश्वास करता हूँ। दिवङ्गतानाम् – मरे हुए लोगों का । महनीयताम् – महानता को । अपितु – बल्कि। ममेच्छा – मेरी इच्छा । प्राचीनार्वाचीनयोर्मध्ये – पुराने और नये के बीच । सेतुरस्ति – पुल है। पाश्चात्यसमीक्षक: – पश्चिमी देश के समीक्षक। ज्ञातव्यः – जानना चाहिए। इतरेषामपि – दूसरों का भी। स्ववर्णमालाम् – अपनी वर्णमाला को । पूर्णीकर्तुम् – पूरा करने के लिए। सम्पोषकम् – पूरी तरह पोषण करने वाली।

एकपदेन उत्तरं लिखत

(क) “संस्कृतभाषा भारतीयभाषाभ्य: गङ्गानदी अस्ति” इति कः उक्तवान् ?
(ख) भारतस्य प्रथमप्रधानमन्त्री कः आसीत् ?
(ग) वैयाकरणेषु पूर्णः सर्वमान्यश्च कः ?
(घ) भारतीयैकतायाः साधकं किम् ?
(ङ) संस्कृतं कस्या: भाषाया: अपेक्षया अधिकं समृद्धम् ?

एकवाक्येन उत्तरं लिखत –

(क) संस्कृतभाषा कस्य पोषणं करोति ?
(ख) सर्वप्राचीना भाषा का अस्ति ?
(ग) श्रीमाता संस्कृतविषये किं कथयति ?
(घ) मैक्समूलर: संस्कृतविषये किमुक्तवान् ?
(ङ) अस्माकं सर्वेषां जननी का ?

अधोलिखितप्रश्नानाम् उत्तराणि लिखत –

(क) संस्कृतविषये विवेकानन्देन किं कथितम् ?
(ख) वेबरमहोदयेन संस्कृतविषये किमुक्तम् ? लिखत।
(ग) एच.एच.विल्सनमहोदय: संस्कृतविषये किम् उक्तवान् ?

उचितशब्देन रिक्तस्थानपूर्ति कुरुत –

(बाधकं/साधकं) (मैक्समूलर:/अरविन्दः) (देशत्व/विश्वबन्धुत्व) (सेतुः/केतुः) (अमूल्यधनम्/मूल्यधनम्)
(क) भारतीयैकता …. …….. संस्कृतम्।
ख) ….. वैदेशिक: विद्वान् अस्ति।
(ग) ……… ………………. सम्पोषकं संस्कृतम्।
(घ) संस्कृतभाषा प्राचीनार्वाचीनयोर्मध्ये ………………………….. अस्ति।
(ङ) संस्कृतसाहित्यं मानवजातेः कृते. …………… अस्ति।

यथायोग्यं योजयत – (कस्य कः कथनांशः अस्ति)


‘अ’ ………………………………………. ‘आ’
(क) संस्कृतम् अवश्यमेव शिक्षणीयम् …….मैक्समूलर:
(ख) संस्कृतमेव राष्ट्रभाषा भवितव्या ……मु. अली छागला
(ग) संस्कृतं भारतीयभाषाभ्य: गङ्गानदी इव …..डॉ. सम्पूर्णानन्दः
(घ) मातृभाषया सह संस्कृतं शिक्षणीयम् ……महात्मागान्धिः
(ङ) संस्कृतं विश्वस्य महत्तमा भाषा अस्ति ………विवेकानन्दः

शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत –

(क) संस्कृतं विश्वस्य महत्तमा भाषा अस्ति।
(ख) संस्कृतस्य व्याकरणं सर्वमान्यं न अस्ति।
(ग) संस्कृतभाषाया: अपेक्षया ग्रीकभाषा अधिकपूर्णा वर्तते। ।
(घ) संस्कृतमाधुर्यं वैदेशिकैः अपि अनुभूतम्।
(ङ) भारतीयैकतार्थं संस्कृतम् आवश्यकम् अस्ति।

निम्नलिखितशब्दानां मूलशब्दं विभक्तिं वचनं च लिखत –

     | शब्दः । मूलशब्दः । विभक्तिः । | वचन 

यथा – विषये | विषय | सप्तमी । एकवचनम्
(क) संस्कृतस्य (ख) विचाराणाम् (ग) सर्वैः (घ) प्रचारे (ङ) राजनेतृणाम्

क्रियापदानां धातुं लकारं पुरुषं वचनं च लिखत –

| क्रियापदम् | धातुः । लकारः पुरुषः । वचनम् |
यथा – पठामः । पठ् । लट्लकार: उत्तमपुरुषः । बहुवचनम्
(क) अवदत् (ख) कथयति (ग) जानन्ति (घ) स्थास्यति | (ङ) भविष्यन्ति

अधोलिखितपदानां सन्धिविच्छेदं कृत्वा सन्धिनाम लिखत –

यथा – विद्यालयः विद्या + आलयः = दीर्घस्वरसन्धिः।
(क) कथनेऽपि (ख) स्थास्यत्येव (ग) नैके (घ) यद्यपि (ङ) प्राचीनार्वाचीन:

अव्ययैः वाक्यनिर्माणं कुरुत


यथा – एव – संस्कृतभाषा एव देववाणी अस्ति।
(क) यदि (ख) विना …… (ग) यत् ……. (घ) च……. (ङ) कृते ..

Leave a Comment