MP BOARD CLASS 10 SANSKRIT CHAPTER 2 NYAGRODHVRIKSH द्वितीय:पाठः न्यग्रोधवृक्षः

MP BOARD CLASS 10 SANSKRIT CHAPTER 2 NYAGRODHVRIKSH द्वितीय:पाठः न्यग्रोधवृक्षः

 द्वितीय:पाठः न्यग्रोधवृक्षः


प्रकृति: एव पर्यावरणम् अस्ति । तस्या: असन्तुलनमेव पर्यावरणस्य विनाशकारणम् । पर्यावरणशब्द: परि+आवरणम् इत्यनयो: पदयो: सम्मेलनेन निष्पन्न: भवति । अस्यार्थ: अस्मान् परित: स्थितम् आवरणम् एव पर्यावरणम् । पर्यावरणक्षरणेन उत्पन्ना: या: समस्या: सन्ति तासु “ओजोनपरत” इत्यस्य क्षरणम् एका प्रमुखा समस्या । अस्या:प्रमुखं कारणं वनानां व्यापकरूपेण नाश: अपि अस्ति । संस्कृतसाहित्ये तु प्राचीनकालादेव पर्यावरणसंरक्षणं प्रति जागरूकता दृश्यते । अत्र एतं विषयम् अवलम्ब्यैव एषा कथा प्रस्तुतास्ति ।

कस्मिंश्चित् ग्रामे एक: प्राचीन: विशाल: च न्यग्रोधवृक्षः आसीत् । स: पशुपक्षिभ्य: बहुविधेभ्य: जीवजन्तुभ्य: मनुष्येभ्यः अपि नित्यं बहूपकारकः आसीत् । पथिका: तस्य वृक्षस्य छायायां पाथेयं भक्षयित्वा मार्गायासं परिहरन्ति स्म । पशव: छायार्थं वृक्षमिमम् आश्रयन्ति स्म । पक्षिण: तस्य शाखासु नीडानि विरच्य वसन्ति स्म । सर्पाश्च तत्रत्येषु वल्मीकेषु वासं कुर्वन्ति स्म । एवं स वृक्षः सर्वप्रिय: सर्वहितकारी सर्वापेक्षित: च आसीत् ।

तस्य न्यग्रोधवृक्षस्य शाखायाम् एकः काकः बहुकालात् वसन्नासीत् । कस्मिंश्चित् दिने स वायस: किमपि स्मरन् इतस्तत: दृष्ट्वा एवम् उच्चैः अरटत् “हे बन्धवः! श्रूयन्तां मे वचः । अहम् अस्मिन् वृक्षे चिरात् वसामि । अतः अस्योपरि ममैव अधिकारः वर्तते । अयं मदीय: वृक्षः इति । काकस्य ध्वनि: क्रमेण अन्तरिक्षम् अस्पृशत् ।

काकस्य रटनं श्रुत्वा वृक्षस्य समीपे चरन्त: वृक्षाग्रे डयमाना: वृक्षस्य कोटरेषु निवसन्त: च सर्वे प्राणिन: पशव: पक्षिण: सर्पाश्च समायाताः । तेषां मध्ये प्रथमं सर्पः फटाटोपं कुर्वन् न्यगदत् “पितृपितामहानां कालादपि अहम् अत्रैव निवसामि अतोऽयं वृक्ष: मदीय एव” इति । तत: शाखात: शाखान्तरं चंक्रम्य एक: कीट: प्रत्यवदत् “मदीयैः अर्भकैः सार्द्धम् अहं बहुवर्षेभ्य: अत्रैव उषितवानस्मि । अतोऽयं वृक्षः ममैव” इति ।

अनन्तरं शुक: “अस्य वृक्षस्य फलानि खादन् जन्मत: अहमत्रैव वर्ते । नाहमिमं द्रुमं परित्यक्तुमिच्छामि । मदीय एवायं न्यग्रोधवृक्षः” इति उच्चैः अभणत् । ततश्च तत्रत्या: अपरिमिता: कृमय: कीटाश्च “अयं तरु: अस्मदीय एव” इत्युक्त्वा वृक्षस्योपरि स्वं-स्वम् अधिकारं घोषयन् विचित्रतरं कोलाहलम् अकुर्वन् ।

अत्रान्तरे कश्चित् अजापुत्रः तत्रागतः । सोऽपि तस्य तरो: पत्राणि खादन् नन्दति स्म । तं दृष्ट्वा सर्वे प्राणिन: न्यायनिर्णय कर्तुं तं प्रार्थयन्त । सर्वेषां वचनानि श्रुत्वा स अज: अवदत् – “अस्तु मया समेषां समस्या समाकर्णिता । इदानीं मम वचनानि यूयं शृणुत । काश्चन शाखा: काकेभ्यः, शाखान्तराणि च कृमिकीटेभ्यः, मूलं सर्वेभ्य: अनेन प्रकारेण सर्वेभ्योऽपि वृक्षं विभज्य दापयिष्यामि । अस्मिन्नेव ग्रामे कश्चित् वृक्षच्छेदक: मे मित्रमस्ति । तम् आह्वयामि इमं वृक्षं खण्डश: कर्तुम्” इति ।

अजस्य निर्णयः सर्वैः स्वीकृत: अत: सर्वेऽपि वृक्षच्छेदकस्य समीपं गत्वा न्यग्रोधवृक्षं छित्वा तस्य भागानाम् वितरणार्थं प्रार्थयन्त । परं सोऽयं काष्ठच्छेदकः अवदत् “पूर्वम् अहं वृक्षान् छिनद्मि स्म । अधुना तादृशे कुत्सिते कर्मणि न व्यापारयामि । वृक्षाणां छेदनं महत् पापमिति मया अधिगतमस्ति अत: न्यग्रोधवृक्षस्य छेदनम् अहं न करिष्यामि” इति ।

तथापि सर्वे प्राणिन: तं वृक्षं छेत्तुं यदा निर्बन्धम् अकुर्वन् तदा स धीमान् इदमाह – “अस्तु तर्हि प्रथमं मे वचः शृणुत-यूयं सर्वेऽपि अनेन वृक्षण उपकृता: एव । वृक्षस्य उपकारं स्वीकृत्य युष्माभिः कः प्रत्युपकारः कृत: ? युष्माकं मध्ये कः वृक्षस्य जलसेचनम् अकरोत् ? कः तस्य रक्षणं विहितवान् ? न कोऽपि किञ्चिदपि अकरोत् । वरुणदेव: वृष्टिं वर्षति । सूर्यदेव: प्रकाशं प्रयच्छति । भूमाता वृक्षस्य आधारभूता अस्ति । वायु: अनिलं ददाति । ते सर्वे वृक्षं पालयन्ति पोषयन्ति रक्षन्ति च । ते न कदापि “मम अधिकार: वर्तते” इति अवदन् । ते सर्वे परोपकारिणः । परं यूयं सर्वे परापकारिण: वृक्षस्य साहाय्यं स्वीकृत्य तमेव नाशयितुं कृतसङ्कल्पा यूयं स्वाश्रयमेव नाशयथ । अस्मिन् वृक्षे छिन्ने सति यूयं कुत्र गमिष्यथ ?

सर्वमिदं श्रुत्वा पशुपक्षिण: “आम् । सत्यम् । वयं स्वकर्त्तव्यं विस्मृत्य अधिकारार्थं कोलाहलं कुर्मः । वृक्षः प्रकृतिदत्त: वरः अस्ति । स न कस्यापि एकस्य सम्पत् भवितुमर्हति । अस्माभिः सर्वैः मिलित्वा वृक्षस्य संरक्षणं संवर्धनं समारोपणं च कर्त्तव्यम् । न तु विनाश: कार्यः’ इति दृढनिश्चयम् अकुर्वन् । अस्माभिः मानवैः अपि वृक्षसम्पत् वर्धनीया ननु ।

शब्दार्थ: ——


न्यग्रोधवृक्षः – बरगद का पेड़ । बहूपकारकः – बहुत अधिक उपकार करने वाला । बहुविधेभ्य: – अनेक प्रकार के । पथिकाः – राहगीर । पाथेयम् – रास्ते का भोजन । मार्गायासम् – रास्ते की थकान को । नीडानि – घोंसले । विरच्य – रचकर/बनाकर । वल्मीकेषु – बिलों में । वायसः – कौआ । न्यगदत् – बोला । मदीय: – मेरा । डयमाना: – उड़ते हुए । फटाटोपं कुर्वन् – फण से क्रोध को प्रकट करते हुए, फुसकारते हुए । चंक्रम्य – घूमकर । अर्भकैः सह – पुत्रों के साथ । उषितवानस्मि – रह रहा हूँ । द्रुमम् – वृक्ष को । अभणत् – बोला । घोषयन् – घोषणा करते हुए । तत्रत्या: – वहाँ के । अजापुत्रः – बकरी का बच्चा । नन्दति – प्रसन्न होता है । समेषाम् – सभी की । दापयिष्यामि – दिलवाऊँगा । वृक्षच्छेदक: – वृक्ष को काटने वाला/लकड़हारा । आह्वयामि – बुलाता हूँ । खण्डश: – टुकड़े-टुकड़े । छित्वा – काटकर । कुत्सिते – निन्दित में/बुरे में । छिनत्ति – काटता है । धीमान् – बुद्धिमान् । वृष्टिम् – वर्षा को । भूमाता – धरती माता । परापकारिण: – दूसरों का अपकार करने वाला । साहाय्यम् – सहायता को । स्वाश्रयमेव – अपने आश्रय को ही ।

1-एकपदेन उत्तरं लिखत –

(क) ग्रामे कः वृक्षः आसीत् ?
(ख) के मार्गायासं परिहरन्ति स्म ?
(ग) कस्य ध्वनि: अन्तरिक्षम् अस्पृशत् ?
(घ) प्रकृतिदत्त: वर: कः ?
(ङ) तरो: पत्राणि खादन् कः नन्दति स्म ?

2-एकवाक्येन उत्तरं लिखत –

(क) सर्वैः कस्य निर्णयः स्वीकृत: ?
(ख) कः वृष्टिं वर्षति ?
(ग) वृक्षस्य आधारभूता का ?
(घ) अस्माभिः का वर्धनीया ?
(ङ) किं महत् पापम् अस्ति?

3-अधोलिखितप्रश्नानाम् उत्तराणि लिखत –


(क) शुकः किम् अवदत् ?
(ख) कीट: किं प्रत्यवदत् ?
(ग) वृक्षच्छेदनविषये काष्ठच्छेदकः किम् अवदत् ?

4-प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –

(नीडानि, अनिलं, मार्गायासं, सूर्यदेव:, चंक्रम्य)
(क) शाखान्तरं …. ……………. एक: कीट: अवदत् ।
(ख) पथिका: ………………………. परिहरन्ति स्म ।
(ग) पक्षिण: शाखासु .. … विरच्य वसन्ति स्म ।
(घ) वायुः ……………………….. ददाति ।
(ङ) ……………. ……..प्रकाशं प्रयच्छति ।

5-यथायोग्यं योजयत –


“अ” ………………..’आ’
(क) प्राचीन: …………….सर्पः करोति
(ख) वरुणदेवः …………….न्यग्रोधवृक्षः
(ग) फटाटोपम् …………….वृष्टिं वर्षति
(घ) सर्पाः …………….वृक्षः
(ङ) प्रकृतिदत्त: वरः …………….वल्मीकेषु

6-शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत –

(क) शुकस्य ध्वनि: अन्तरिक्षम् अस्पृशत् ।
(ख) कीट: अर्भकैः सार्द्धम् वसति स्म ।
(ग) वृक्षच्छेदक: वृक्षं खण्डशः कृतवान् ।
(घ) वृक्षाणां छेदनं महत् पापम् ।
(ङ) सूर्यदेव: वृष्टिं वर्षति ।

7 अधोलिखितपदानां प्रकृति प्रत्ययं च पृथक्कुरुत –

यथा -भक्षयित्वा – भक्ष् + क्त्वा
(क) कुर्वन् (ख) विभज्य (ग) छेत्तुम् (घ) विस्मृत्य

8-अधोलिखितपदानां सन्धिविच्छेदं कृत्वा सन्धिनाम लिखत –

पदम् विच्छेदः सन्धिनाम
यथा -इत्युक्त्वा इति + उक्त्वा ……..यण् सन्धि
(क) ममैव (ख) सर्पाश्च (ग) सोऽयम् (घ) तत्रागतः

9-अधोलिखितपदानां पर्यायशब्दान् लिखत –

यथा -वृक्षः – तरुः
(क) काकः (ख) सर्पः (ग) पिता (घ) पुत्रः

10- अव्ययैः वाक्यरचनां कुरुत –

यथा – एव – ईश्वर: एव रक्षक: अस्ति ।
(क) अपि (ख) तर्हि (ग) ततः

Leave a Comment